________________
In
ri श्रीदेवकुमार
चरित्रम् ।।
कथासंग्रहः
॥३॥
. विच्छायासि करमृष्टमालतीमालिकेव च ? ॥ १५॥ स्वामिना विहितं किञ्चित् किमु स्मरसि विप्रियम्
?। अथाकुण्ठा समुत्कण्ठा, बन्धुवर्गनिरीक्षणे ॥१६॥ चिरात्रातस्य वित्तस्य, विनाशः किमजायत? । किं वा परिजने कोऽपि, तवाऽऽदेशं न च व्यधात् ? ॥ १७ ॥ अथ किञ्चित् शरीरस्थमसुखं ते विजृम्भितम् ? । चिरध्यातोऽथवा कोऽपि, फलितो न मनोरथ: ? ॥ १८ ॥ कृत्वा प्रसाद, सर्व मे, निवेदय यथातथम् । श्रेष्ठिनोऽग्रे यथाऽऽख्याय, साधयामि समीहितम् ॥ १९॥ अथ श्रेष्ठिप्रिया प्राह, मम स्वामिप्रसादतः । सर्वमस्ति भुवि सुखमेकं सुतसुखं विना ॥ २० ॥ इदं पूर्वार्जितैरेव, कर्मभिस्तु प्रजायते। वहेत्पुरुषकारोऽत्र, पुंसामल्पोऽपि नो पुनः॥ २१॥ तदेतस्य त्वयाऽऽख्येयो, नैवार्थः सर्वथाऽपि हि। सोऽपि मा भूदहमिव दुःखानां भाजनं परम् ।। २२॥ यथा यथा परा नि, रममाणानि पश्यति। भूषितालङ्कतान्युच्चैः, खिद्यते सा तथा तथा॥ २३॥ खिद्यमानेति सा राकासुधादीधितिमूर्तिवत् । दिनैः कतिपयैर्जाता, बाढं कृशतनुर्लता ॥ २४ ॥ तथारूपां निरीक्ष्यैतां, श्रेष्ठी पप्रच्छ वल्लभे ! । ज्वलद्दवानलस्पृष्टलतेव किमु वीक्ष्यसे ? ॥ २५॥ मा भूदस्याऽसुखमिति, न सा कथयति स्म तु। समाकुलमनाः श्रेष्ठ्यपृच्छन्नैमित्तिकानथ ॥ २६ ॥ गणयित्वा ग्रहबलं, तैराख्यायेि दिनाधिपः । एतस्याः कुरुते पीडां, पूजया स प्रशाम्यति ॥ २७ ॥ ततः श्रेष्ठी बहु द्रव्यं, तेषां पूजार्थमार्पयत् । ते
E SEEE
॥३॥