SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ।।१७।। लात्वा समेताऽहं त्वदन्तिके ॥ २०६ ॥ अत्रान्तरे समायाताश्चत्वारस्ते वणिग्ब्रुवाः । मायां कृत्वा जगृहे यै रत्नचूडक्रयाणकम् ॥ २०७ ॥ वरासनोपविष्टास्ते गदिता यमघण्टया । सांयात्रिकोऽत्र भोः ! कश्चिदागतः श्रूयतेऽधुना ॥ २०८ ॥ ओमित्यूचुस्ततः सर्वे पुनः सा निजगाद तान् । भवतां समभूल्लाभो भविता वा निवेद्यताम् ।। २०९ ।। आसीदित्यवोचंस्ते कया रीत्याऽथ सा जगौ । ततस्ते कथयामासुः सर्वं मायाविचेष्टितम् ॥ २१० ॥ तच्छ्रुत्वा साऽवदद्धानिर्भवतां भविता ननु । कथमित्यूचिरे तां ते साऽवदन्निि नोच्यते ।। २९९ ।। उक्तं च- दिवा निरीक्ष्य वक्तव्यं रात्रौ नैव च नैव च । सञ्चरन्ति महाधूर्त्ता वटे वररुचिर्यथा ॥ २१२ ॥ तथाप्यत्याग्रहपरान् वीक्ष्य साऽवददक्तिका । यदिष्टवस्तुभिर्यानपूरणं तेन वः क्षयः ॥ २१३ ।। तेऽवोचन् कूटवस्तूनि सन्ति गेहे बहूनि नः । तैर्यानं पूरयिष्यामो यैरसौ कथयिष्यति ॥ २१४ ॥ अथोचे धीमती सा तान् यद्यसौ मशकास्थिभिः । यानं कारयिता पूर्णं तदा किं भोः ! करिष्यथ ।। २१५ ।। तेऽजल्पन्नीद्दशी बुद्धिः कथं तस्य भविष्यति ? । यतोऽसौ बालको बुद्धिर्वृद्धानां हि भवेद् भुवि ॥ २१६ ॥ उक्तं च- यदेकः स्थविरो वेत्ति न तत् तरुणकोटयः । यो नृपं लत्तया हन्ति वृद्धवाक्यात् स पूज्यते ।। २१७ ।। अक्का जगाद भूयोऽपि नैकान्तो विद्यते ह्ययम् । बालकोऽपि सुधीः कश्चिद् रोहकोऽभूद् यथा पुरा ।। २१८ ॥ को रोहक इति पृष्टे सा जगाद वचस्विनी । अवन्तीनगरीपार्श्वे | रत्नचूडकथा ॥१७॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy