SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ रत्नसा श्रीजैन कथासंग्रहः ॥१६॥ लगाया गया गलत रयरचरचरचरचरचरचरचरचरचरचा नृपोऽप्यत्रेदृशोऽस्ति वै। सोऽपि चेत् सङ्कटे पाता भवित्री का गतिस्तदा ? ॥ १९३ ॥ इत्थं विमृश्य स स्थानं जगाम सरलाशयः । तथा च चिन्तयामास सङ्कटान्मोक्षमात्मनः ॥ १९४ ॥ अथैषां हन्त ! धूर्तानामतिधूर्तधिया जयः । दवस्येह प्रतिदेवो यतो देयः इति श्रुतिः ॥ १९५ ॥ अतिधूर्तधियां स्थानं विचिन्त्य गणिकागृहम् । जगाम रणघण्टाया वेश्यायाः स निकेतनम् ॥ १९६ ॥ कितवार्पितदीनारसहसं सममार्पयत् । तस्यास्ततस्तया चक्रे तस्य गौरवमुच्चकैः ॥ १९७ ॥ केलिकौतूहलोन्मुक्तं तं वीक्ष्य गणिका जगौ। किं सचिन्त इव स्वामिन् ! दृश्यसे वद कारणम् ॥१९८ ॥ याथातथ्यं निवेद्यासावुत्तरं समपृच्छत । साऽपि दानवशीभूता तस्य तथ्यं न्यवेदयत् ॥ १९९ ॥ शृणु सुन्दर ! यः कश्चिद् दैवाद् वैदेशिको नरः । इहायाति धनं तस्य गृहन्त्येते सुनिश्चितम् ॥ २०० ॥ गृहीतस्य धनस्यैकं भागं लाति महीपतिः । सचिवस्तु द्वितीयांशं श्रेष्ठी तृतीयकं पुनः॥२०१॥ आरक्षकश्चतुर्थाशं पुरोधाः पञ्चमं तथा। षष्ठं भागं च मन्माता यतः सा सर्वबुद्धिदा॥२०२॥ अतः स्त्रीवेषमादत्स्व यथाऽऽवाभ्यां प्रगम्यते। तत्र स्थितस्त्वं मन्मातुः श्रोष्यसे सर्वमुत्तरम् ॥२०३॥ तथाकृतेऽमुना सा तं गृहीत्वाऽगात् प्रसूगृहम् । दृष्ट्वा तं यमघण्टोचे केयं बाला सुते ! वद ? ॥ २०४ ॥ रणघण्टाऽवदन्मातः ! श्रीदत्तश्रेष्ठिनन्दनी । रूपवत्यभिधानेयं वयस्या मम विद्यते॥२०५॥ एषैकवारं मिलति नाद्य मे मिलिता दिने । तदर्थमागतां रयययययययययययययययय ॥१६॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy