SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ रत्नचूडकथा श्रीजैन कथासंग्रहः ॥१५॥ यावयाचगाना తలల లలలలలలల లలను स्माह भो मित्र ! नो वाच्यं पुनरीदृशम् । यथा स्त्रीचरितं प्रोक्तमन्यन्मानद्वयं तथा ॥१८० ॥ तृतीयः प्रोचिवान् किं भो ! वदसीत्थमनर्गलम् । सुभाषितानि नो वेत्सि पूर्वसूरिकृतानि वा ॥१८१ ॥ यत उक्तम्-सुख-दुःख-जय-पराजय-जीवित-मरणानि ये विजानन्ति । मुह्यन्ति तेऽपि नूनं तत्त्वविदश्चेष्टिते स्त्रीणाम्॥१८२॥ प्राप्तुं पारमपारस्य पारावारस्य पार्यते। स्त्रीणां प्रकृतिवक्राणां दुश्चरित्रस्य नो पुनः॥ १८३॥ अतोऽन्यद्वयमानस्य पारगाः केऽपि भूतले। सन्ति सन्तो बुद्धिमन्तो नैव स्त्रीचरितस्य तु ॥ १८४ ॥ चतुर्थेन ततः प्रोक्तं धीमानयमुपागतः । स्फोटयिष्यति सन्देहं वादं मा कुरुष्वोद्धतम् ॥ १८५ ॥ अथ त्रयोऽपि सम्भूय भूयोऽजल्पन् चतुर्थकम्। धीमानयं तदा मानमस्मदुक्तं करोति चेत् ॥ १८६ ।। तुर्योऽवोचद् वदध्वं भोः ! यस्य मानस्य वो रुचिः । तत् करिष्यत्यसौ बुद्ध्या बुद्धेः किं नाम दुष्करम् ? ॥१८७ ॥ तेऽजल्पन दूरसंस्थाया गङ्गायाः किमु कथ्यते ? । समीपस्थसमुद्रस्य मानमेतेन कारय ॥ १८८ ॥ रत्नचूडस्तु तुर्येण तथा प्रोत्साहितस्तदा। समुद्रनीरप्रमिति यथाऽङ्गीकृतवानयम् ॥१८९॥ एकीभूय ततः सर्वे जगदुस्तं प्रतीदृशम् । यदि मानं करोषि त्वं तदाऽस्मत्कमला तव ॥ १९० ।। नो चेत् तदा वयं सर्वा ग्रहीष्यामस्तव श्रियम् । इत्युक्त्वा विदधे तत्र साक्षिणस्तैः शठाशयैः ॥ १९१ ।। रत्नचूडस्ततो दध्यौ पित्रा मे यादृशाः पुरा । इहत्याः कथिता लोकास्तादृशा एव केवलम् ॥ १९२ ॥ इत उत्तारके यामि चरररररररररररररर रगरगायरियपररयागरागर ॥१५॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy