SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥ १४॥ हारितम् ।। १६६ ।। उच्चाटितस्तदाऽहं तैद्यूतकारैः कटूक्तिभिः । मिलित्वा परितः संस्थैः काकैर्धूक इवाहनि ।। १६७ ।। तदाऽयं त्वत्पितुः पार्श्वे गत्वा धनमयाचत । सोऽप्युवाच ग्रहणकं दत्त्वाऽऽदत्स्व धनं धनम् ।। १६८ ।। ततो मया पुनः प्रोक्तं गेह-स्वर्ण गवादिकम् । द्यूतव्यसनतः सर्व गतं मे किं ददामि ते ? ।। १६९ ।। श्रेष्ठ्यूचे तर्हि गच्छ त्वं न दास्ये तव किञ्चन । तदा ताडयितुं लग्ना मां च द्यूतकराः पुनः । १७० ।। ततो मया विमृष्टं हि मारयिष्यन्ति माममी । अतः स्वाङ्गं किमप्यस्य दत्त्वा गृह्णाम्यहं धनम् । १७१ ॥ चरणाभ्यां च हस्ताभ्यां विना न स्यात् कथञ्चन। अतो मया चक्षुरेकं मुक्तं ग्रहणके तदा ।। १७२ ॥ अत्र यावत् स्थितः श्रेष्ठी तावन्नासीद् धनं मम । लात्वा नेत्रं गतस्तेन पिता ते नगरं निजम् ।। १७३ ।। गृहीत्वा मेऽधुना द्रव्यं नेत्रमर्पय सत्वरम् । यतोऽनेन विना भाति न मुखं मामकं किल ।। १७४ ।। इत्युक्तं तस्य स श्रुत्वा चिन्तयामास चेतसि । अनेनाश्रुतपूर्वं मे गदितं किं करोम्यतः ? ।। १७५ । अथवा चिन्तया किं मे यद् भाव्यं तद् भविष्यति । परमुपस्थितं द्रव्यं किं त्यजामि मुधाऽधुना ।। १७६ । संप्रधार्य मनस्येवं गृहीत्वा तद्धनं च तम् । प्रत्युवाच समेतव्यं ममोत्तारे त्वया प्रगे ।। १७७ ।। ततः स्थानात् समायान्तं कुमारं वीक्ष्य चापरे । चत्वारो वणिजो धूर्त्ता वादमेवं प्रचक्रिरे ।। १७८ ।। तेषामेकोऽवदन्नीरं समुद्रस्य हि मीयते । गङ्गाया वालुका वाऽपि न स्त्रियश्चरितं पुनः ।। १७९ ।। द्वितीयः रत्नचूडकथा ॥ १४॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy