________________
श्रीजेन कथासंग्रहः
॥१३॥
तथापि तत् कृतं साधु यत् त्वमत्रागतो बुध ! ॥ १५३ ॥ उत्तिष्ठतां कुमारेन्द्र ! गम्यते स्वगृहे यतः । त्वादृशाः स्वजना भाग्यैर्लभ्यन्ते पूर्वर्निर्मितैः ॥ १५४ ॥ इत्थं विश्वास्य तैनतो वृद्धसद्यनि तेषु सः । स्नान - भोजन मानाद्यैर्गौरवं गमितस्तथा ।। १५५ ।। भोजनानन्तरं ते तं प्रोचुर्भूर्त्तधुरन्धराः । कुमार ! सुकुमारं ते शरीरं दृश्यते बहु ।। १५६ ।। कठोरदेहसंसाध्यो व्यवसायो निगद्यते । यतो भवेन्न वेलायां भोजनं शयनं तथा ।। १५७ ।। व्यवसायं कुर्वतस्ते चेद् देहेऽपटुता भवेत् । श्रेष्ठिरत्नाकरस्याहो ! दद्य वै किं तदोत्तरम् ? ।। १५८ ।। अतः पोतेऽस्ति यत् किञ्चित् तत् सर्वं नः समर्पय । यानं पूर्णांकरिष्यामस्तवेष्टैर्वस्तुभिर्वयम् ॥ १५९ ॥ इत्युक्ते सोऽवदत् सर्वं गृह्यतां यानपात्रगम् । चत्वारोऽपि ततस्तस्य सर्वस्वं जगृहुर्मुदा ।। १६० ।। ग्रहणानन्तरं सर्वे ययुः स्वं स्वं निकेतनम् । सौजन्यं ज्ञायते नैव तेषां कुत्र गतं तदा ? ।। १६१ ।। कुमारोऽन्यदिनेऽचालीन्मिलनार्थं महीपतेः । पादुकाकृत् तदा कश्चिद् - ढौकयामास पादुकाम् ।। १६२ ।। कुमारस्तं प्रति प्रोचे वद मूल्यं किमत्र भो ! । सोऽवदत् तव हर्षाय • मयैषा प्राभृतीकृता ।। १६३ ॥ तं जगाद कुमारोऽपि चेदित्थं त्वामहं तदा । विधास्यामि सुहृष्टं भोः ! इत्युक्त्वाऽगमदग्रतः ॥ १६४ ।। यावदेष व्रजत्यग्रे कियत्यपि हि तावता । एकाक्षः कितवो धूर्त्तः कश्चिदूचे च तं प्रति ।। १६५ ।। कुमार ! शृणु वृत्तान्तं यदाऽऽगात् प्राग् पिता तव । तदा मया सहस्रं तु दीनाराणां च
रत्नचूडकथा
॥१३॥