________________
श्रीजैन कथासंग्रहः
गाजरलचूडकथा
॥१२॥
चचचचचचचचचचच.
बयलयरत्यययययययययया
वासोमयावासान् कारयित्वा च तस्थिवान् ॥ १४०॥ समीपस्थं नरं कञ्चिद् दृष्ट्वा स पृष्टवान् सुधीः । कोऽयं द्वीपः पुरं किं च राजा कोत्र निगद्यताम् ?॥१४१॥ तत बूचे नरः सोऽपिशृणु सुन्दर ! सम्प्रति। द्वीपोऽयं चित्रकूटाख्यः पुरं चानीतिसंज्ञकम् ॥ १४२ ॥ अन्यायाख्यम्तथा राजा विद्यते विश्वविश्रुतः। श्रुत्वा तस्योदितं वाक्यं चित्ते दथ्यौ कुमारकः॥१४३॥ पित्रा यत्र निषिद्धोऽहं तत्रैवागां विधेर्वशात् । तथाऽपि प्रचुरो लाभो भविता मे न संशयः॥१४४॥ यतश्चलनवेलायां चित्तोत्साहः पुनर्वराः । शकुनाः पवनश्चानुकूलः सर्व शुभं ततः॥ १४५ ।। इत्थं चित्ते विचिन्त्यासौ यावत् तस्थौ विचारवान् । चत्वारो वणिजस्तावदाययुः पुरमध्यतः ॥ १४६ ॥ ततो गौरवितास्तेनासनमानादिना भृशम् । जजल्पुर्मधुरालापैपूंर्तधीनिधयोऽथ तम् ॥१४७॥ कुतः स्थानात् कुमारेन्द्र! त्वमागाः कः पिता तव ? । किंनामाऽसि वदास्माकमुत्कण्ठा विद्यते यतः ॥१४८ ॥ त्वयि दृष्टे तथा स्नेहश्चित्ते नोऽचिन्तितोऽजनि । तदत्र कारणं किञ्चिदस्ति स्वस्तिनिकेतनम् ॥१४९ ।। कुमारोऽपि तत: सर्व मित्रेणाकथयत् स्फुटम् । यतो नामापि नो ग्राह्यं स्वयं स्वस्य विवेकिना॥१५०॥ उक्तं च-आत्मनश्च गुरोश्चैव भार्यायाः कृपणस्य च । क्षीयते वित्तमायुश्च मूलनामानुकीर्तनात् ॥ १५१ ॥ तेऽवोचन् सकलं वृत्तं श्रुत्वा तस्य महात्मनः । युक्तमासीद् हृदि स्नेहोऽस्माकं त्वं स्वजनोऽसि यत् ॥१५२॥ परं त्वं लघुरूपोऽसि नोपलक्षयसीह नः।
रायचयनराशय
Relलयलगायल
॥१२॥
.