________________
रत्नचुडकथा
श्रीजैन कथासंग्रहः
॥११॥
लगायरालय
ययययययययययययययययन
॥ १२७ ॥ सुमुहूर्ते ततो ज्योतिर्विदा दत्ते समङ्गलः । शुभचन्द्रबलोपेते स चचाल जनैर्वृतः ॥ १२८॥ साम्भः कुम्भादर्श-दधि-पुष्प-वर्धापनानि च। मृत्तिका-घृत-वस्त्राणि ध्वज-मीन-फलानि च ॥१२९ ॥ राजाश्व-वृष-धेनुश्च सुहृद्-वीणा-मधूनि च । एतानि व्रजतस्तस्य सम्मुखानि प्रजज्ञिरे ॥ १३० ॥ विनायक-खरोष्ट्राणां दुर्गाऽश्वतर-वाजिनाम् । शिवा-वृष-सारसानां वामे शब्दोऽभवत् तदा ॥१३१ ॥ अवदद् दक्षिणे पायें वृद्धविनायकस्तथा । अग्रे हस्ती पुनः पृष्ठे गृध्रस्तस्य महात्मनः ॥१३२॥ कृष्णसारः सारमेयः काकच मधुरस्वरः । अभूवन् दक्षिणात् पार्थात् तस्य वामगता अमी॥१३३ ॥ विषमा हरिणो दुर्गा नकुलाश्चाप-खञ्जनाः । वामभागाद् गतास्तस्य दक्षिणं भागमुत्तमम् ॥१३४॥ एवं शकुनसंप्राप्तिसहर्ष सविता स तु । अदूरं तमनुव्रज्य क्षीरद्रोर्गेहमागमत् ॥ १३५॥ उक्तं च-पितरं सद्गुरुं मित्रं सुतं शिष्यं च बान्धवम् । यस्येच्छेच्छीघ्रमावृत्तिं न तंदूरमनुव्रजेत् ॥१३६ ।। सपञ्चशब्दं सच्छत्रं सपताकं सचामरम्। पोत': पोतं समारुह्य स चचाल ततः पुरात् ॥ १३७ ॥ पृष्ठवायुवशाच्छ्रीघ्रं गच्छता वाहनेन सः । कियद्भिर्दिवसः प्राप द्वीपं किञ्चन वारिधेः ॥ १३८ ॥ तमवाप्य जनाः सर्वे जहर्षुर्यानपात्रगाः । कर्णधारस्ततो निन्ये तत्र वाहनमादरात् ॥ १३९ ॥ जले बोहित्थमास्थाप्योत्तीर्णवान् सुकुमारराट् । तटे १बाल इत्यर्थः ।
चचररररररररररररररररर
रचरचरचरचरयचरयलरचार
॥१
॥