SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीजैन - कथासंग्रहः रत्नचूडकथा ॥१०॥ ययययनराचारायला बारगरगारगरगरगारबराबरचय गतः ॥ ११४ ॥ अथ विशेषोपदेशक्रमः- प्रतिसंवत्सरं वत्स! निजद्रव्यानुसारतः । पूज्याः स्वगुरवो ज्ञातिवृद्धाः साधर्मिकास्तथा ॥ ११५ ॥ प्रतिवर्ष विधेया च तीर्थयात्रा विवेकिना । तथा चालोचना ग्राह्या सद्गुरूणां समीपतः ॥ ११६ ॥ (युग्मम्). बालराज्यं च यत्रास्ति स्त्रीराज्यं यत्र वा भवेत् । द्वैराज्यं मूर्खराज्यं च तत्र स्थेयं त्वया न च ॥ ११७ ॥ राजा यत्र च सौम्यः स्यात् तथा व्यापारिणोऽपि च । व्यवहारपरो लोकस्तत्र स्थेयं त्वया पुनः ॥ ११८ ॥ चे श्रेष्ठी पुनर्वत्स ! दत्ता शिक्षाऽत्र या मया। सर्वसाधारणा साऽतो विशेषात् तव कथ्यते ॥ ११९ ॥ सपादलक्षा द्वीपा भोः ! स्फुटा अप्रकटास्तथा। सन्ति मध्ये समुद्रस्य प्रकटेषु तथा पुनः॥१२०॥ चित्रकूटाभिधो द्वीपो विद्यते धूर्तलोकभूः । तत्रानीतिपुरं नाम पुरमस्ति सुविस्तृतम् ॥ १२१ ॥ अन्यायाख्यो नृपस्तत्र ह्यामात्यस्त्वविचारकः । आरक्षकः सर्वग्राह्यनामाऽशान्तिः पुरोहितः ॥१२२ ।। गृहीतभक्षकः श्रेष्ठी तत्पुत्रो मूलनाशकः । अक्काच यमघण्टेति रणघण्टेति तत्सुता॥१२३ ॥ इत्थं यथार्थनामानः सन्ति तत्र नृपादयः । चौरा द्यूतकृतो धूर्ता अन्येऽपि बहवो जनाः ।।१२४ ।। अज्ञाततत्स्वरूपो यस्तत्र याति कदाचन । सर्वस्वं तस्य गृहन्ति तत्रत्या विविधा जनाः ॥ १२५ ॥ अतस्तत्र न गन्तव्यं गत्वाऽन्यत्र च सत्वरम् । लाभं लात्वा समेतव्यं वत्स! स्वच्छमते ! त्वया॥१२६ ॥ओमित्युक्त्वा ततः कोटिस्वर्णमूल्यसुवस्तुभिः । भृत्वा प्रवहणं प्रौढंगमनायोत्सुकोऽजनि లలలలలలల లలలలలల ॥१०॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy