________________
'श्रीजैन कथासंग्रहः
॥९॥
दुग्धं पीत्वा तं सेव्याऽऽहत्य गेहस्त्रियं पुनः । स्नात्वा वान्त्वा च निष्ठीव्य श्रुत्वा दुःशब्दमुल्बणम् ॥ १०२ ।। तथाऽश्रुपातं निर्माय काराप्य क्षौरकर्म्म च । मनः शकुनाभावे च गच्छेद् ग्रामान्तरं न हि ।। १०३ ॥ ( युग्मम्). परकूलाद् निम्नगायाः क्षीरवृक्षाद् जलाश्रयात् । अन्वागच्छत्स्वजनं च विनिवार्य ततो व्रजेत् ॥ १०४ ॥ वासोऽज्ञातगृहे नैव कुर्याद् निद्रां घनां न च । विश्वासो नैव कस्यापि कर्त्तव्यो हितमिच्छता ।। १०५ ।। अशम्बलोऽसहायश्चं समं वाऽनुपलक्षितैः । मध्यन्दिने निशायां च सुधीर्मार्गे न तु व्रजेत् ॥ १०६ ॥ कासर - गर्दभोष्ट्राणां गवामारोहणं तथा । श्रमभाजाऽपि नो कार्य श्रीमता श्रियमिच्छता ।। १०७ ।। इमात् करसहस्रेण शताङ्गात् पञ्चभिः करैः । घोटकाच्छृङ्गिणो वाऽपि गन्तव्यं दशभिः करैः ॥ १०८ ॥ न चटेद् वाहने जीर्णे नदीष्वेको विशेद् न च । सहोदरेण सार्धं च पथि गच्छेत् कदापि न ।। १०९ ॥ मार्गे श्रमातुरेणापि कृत्यं कृत्यं सुचेतसा । तथा च नियमाः पाल्या भ्रष्टः स्यादन्यथा पुमान् ॥ ११० ।। अथाऽऽलोक्यानालोक्यप्रक्रमः पश्येत् तीर्थानि देशांश्च वस्तूनि स्वकरं प्रगे । प्रौढपुंसः शकुनांश्च छायापुरुषमेव च ॥ १११ ॥ न पश्येत् कोविदो नित्यं ग्रहणं शशिसूरयोः । महाकूपे तथा नीरं कलिं सन्ध्याक्षणे नमः ।। ११२ ।। कन्यायोनिं पशुक्रीडां नारीमद्भुतरुपिणीम् । नग्नां तथा रतं नैवाखेटकं च विलोकयेत् ॥ ११३ ॥ जल-तैल-शस्त्र मूत्र- रुधिरेषु कदाचन । नेक्षेत वदनं विद्वान् इत्थमायुः क्षयो
रत्नचूडकथा
॥९॥