________________
श
पररररचलचपचपचार
॥७॥
सोऽधमोऽतस्त्वया कार्यो नैव संप्रति सत्तम!॥७६॥ इल्युदित्वा गता वेश्या सोऽथ चित्ते व्यचिन्तयत्। अनया सत्यमाख्यातं ममाहो! चारुमेधया॥ ७७ ॥ अतः परं त्यागभोगावहङ्कारस्तु मे तदा। मदर्जितं यदा भूरि धनं भाव्यन्यथा न हि ॥ ७८॥ ततो मित्रान् स पप्रच्छ लक्ष्मीर्वसति कुत्र भोः!। तेऽवोचन् मित्र! वाणिज्ये कमलाकमले न तु ॥ ७९ ॥ वाणिज्यार्थ ततस्तस्य देशान्तरगतिस्पृहा। चित्तेऽवसदत: क्रीडां मुक्त्वाऽगात् स निजे गृहे ॥ ८० ॥ सव्यग्रं तं समालोक्य पिता प्रोवाच वत्स ! हे। आधिस्ते मानसे काचिद् व्याधिर्वाऽङ्गे प्रवर्त्तते ? ॥ ८१ ॥ उत काऽपि वरा कन्या चित्ते ते वासमासदत् ? । पराभूतोऽथ मित्रेण राजपुत्रेण वाऽधुना?॥ ८२॥ पतितं वा किमप्यद्य शरीराभरणं तव ?। सचिन्त इव येन त्वं दृश्यसे वद पुत्रक!॥८३ ॥ इत्युक्तोऽपि स यदा मौनमालम्ब्य तस्थिवान् । तदा गाढाग्रहः श्रेष्ठी पुनः प्रोवाच तं प्रति ॥ ८४ ॥ अनया चेष्टया तेऽद्य हृदयं खिद्यते मम । अतो वद यथा तस्य प्रतीकारं करोम्यहम्॥८५॥ पितृदुःखापनोदार्थ स जगाद कृताञ्जलिः। तात! देशान्तरे गत्वा मम द्रव्यार्जनस्पृहा ॥८६॥ तस्य तद् वचनं श्रुत्वा श्रेष्ठी प्रोवाच विद्यते। वत्स! भूरि धनं गेहे तेन पूरय वाञ्छितम् ।। ८७॥ अवस्कन्द-चौर-वैरि-नृप-धूर्तसमुद्भवाः । भया भवन्ति सर्वेऽपि विदेशे गच्छत्तां नृणाम् ॥ ८८ ॥ मित्र. पु.स्नेपा, प्रेमान
यनगर रिलायययययययययययययय
Hall