SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥५॥ गयययययययगर लचरचरचरचयलयलयर मुण्डं कृष्णं नग्नं च पिङ्गलम्। हसन्तं पश्यति स्वप्ने यस्तस्य मृतिमादिशेत् ॥ ४९॥ आसनं शयनं गेहं देहं वा ज्वलदग्निकम् । दृष्ट्वा जागर्ति तस्य स्यात् लक्ष्मीः सर्वत्र सम्मता ॥५०॥ कास-भस्मतक्रास्थिवर्ज सर्व सितं शुभम् । गो-वाजि-गज-देवर्षिवर्ज कृष्णं तु निन्दितम् ॥५१॥ इत्युक्त्वा स यदा तूमचक्रे श्रेष्ठी तदा जगी। प्रियया रत्नराशिम दृष्टस्तस्य फलं वद ॥५२॥ पुनरूचे ततः सोऽपि श्रेष्ठिन्नस्य फलं शृणु। शास्त्रे द्वासप्ततिः सर्वे स्वप्नाः सन्ति महाशय!॥५३॥ तेषां मध्ये द्विचत्वारिंशत् स्वप्ना इत्युदीरिताः । त्रिंशत् तथा महास्वप्नाः कथिताः शास्त्रकोविदैः ॥ ५४॥ तीर्थकृन्मातरोऽमीषु पश्यन्तीह चतुर्दश । वासुदेवस्य सप्तैव बलदेवस्य च त्रयः ॥ ५५ ॥ मातरो मण्डलीकस्यैकतरं च समाहिताः । एषु रत्नोच्चयस्त्रयोदशमः सम्मतः पुनः॥५६॥ राजमात्रेव त्वत्पल्या दृष्टः शुभस्त्वयम्। अतो नृपसमः पुत्रो भविता ते न संशयः॥५७॥ श्रेष्ठी तद्वचनं पीत्वा तुतोषोच्चैः स्वचेतसि । तुष्टिदानं ततस्तस्मै दत्त्वाऽगाद् गृहमादरात् ॥ ५८ ॥ पल्यै निवेदयामास तत् सर्व स समाहितः। साऽपि तद्वचनं श्रुत्वा चित्ते हवं दधौतराम् ॥ ५९॥ तहिनादुत्तमं गर्भ बभार मुदिताशया। यथा यथा वर्धतेऽसावस्या हर्षस्तथा तथा ॥ ६०॥ तृतीये मास्यभूत् तस्या दानधर्मे सुदौर्हदः । श्रेष्ठी तं पूरयामास चञ्चद्रोमाञ्चकचुकः ॥६१॥ तदा सा तस्य गर्भस्य पथ्यं पुष्टिकरं च यत् । आहारं च विहारं च तद् पलायचायगगनगरमा परररररररररररररररररर ॥५॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy