SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥४॥ समुत्तरेत् । प्रवासो जायते तस्य गमनं सधनं पुनः ।। ३५ ।। पतन्ति दशना यस्य विशीर्यन्तेऽथवा मुखे । वित्तक्षयो देहजा च पीडा तस्य विनिर्दिशेत् ।। ३६ ।। तल्प- द्वारार्गला भङ्गे भार्यामरणमादिशेत् । छेदेऽङ्गस्य पुनर्दृष्टे पितृमातृ-सुतक्षयः ॥ ३७ ॥ उष्ट्री महिषीभ्यां योऽपाच्यां स्वं नीयमानकम् । पश्येत् तस्य भवेद् व्याधिः खरोष्ट्राभ्यां पुनर्मृतिः ॥ ३८ ॥ स्नेहाभ्यङ्गाद् भवेद् रोगः शृङ्गिणो दंष्ट्रिणस्तथा । अभिद्रवन्ति स्वतस्य राजकुलाद् भयम् ॥ ३९ ॥ पीतवस्त्रधरां नारीं पीतगन्धविलेपिताम् । अवगूहति यः स्वप्ने हत्या लगति तस्य वै ॥४०॥ कृष्णरक्ताम्बरां नारीं कृष्णरक्तानुलेपिताम् । अवगूहति यः स्वप्ने तस्य मृत्युं समादिशेत् ॥ ४१॥ श्वेतवस्त्रधरां नारी श्वेतमालादिभूषिताम् । अवगूहति यः स्वप्ने तस्य लक्ष्मीः प्रजायते ॥ ४२ ॥ श्वेतसर्पस्य दशनमन्यस्यापि च दर्शनम् । जलौका- वृश्चिकयोश्च विजयार्थप्रदं नृणाम् ॥ ४३ ॥ कुक्कुर्टी वडवां क्रौञ्च यः पश्यति शुभाशयः । कन्योत्पत्तिर्भवेत् तस्य प्रियां वा लभते पुमान् ।। ४४ ॥ व्याधिमान् यदि पश्येच्च मण्डलं सूर्यचन्द्रयोः । रोगशान्तिर्भवेत् तस्य नीरोगी श्रीपतिः पुनः ॥ ४५ ॥ देवताः पितरो गावो नृपाः सल्लिङ्गिनः पुनः । कथयन्ति च यत् स्वप्ने तत् तथैव समादिशेत् ॥ ४६ ॥ दधिलाभाद् धनोत्पत्तिर्वृतलाभाद् जयः पुनः । घृतादने ध्रुवं क्लेशो दधिभक्षणतो यशः ॥ ४७ ॥ क्षीरसुरा - रक्तपेयी प्राप्नोति धनसंचयम्। सपूजदेवदर्शी च जयवान् भवति ध्रुवम् ॥ ४८ ॥ करालं विकटं रत्नचूडकथा ॥४॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy