SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥३॥ ग्यालय चरचराचरररररचपचपल पृष्टवान् ।। २१॥ स बूचे नवधा स्वप्नः श्रेष्ठिन् ! भवति तद्यथा। चिन्तोत्पन्नो विकारोत्थोऽनुभूतश्च स्वभावजः॥ २२॥ श्रुतो दृष्टस्तथा धर्मकर्मजः पापजोऽपि च । देवताद्युपदेशोद्धरित्थं ज्ञेयः समासतः ॥ २३ ॥ प्रकारैः प्रथमैः षड्भिः स्वप्नः सर्वो निरर्थक । उत्तरैस्त्रिभिरुत्पन्नः शुभाशुभफलप्रदः ॥ २४ ॥ निशायाः प्रथमे यामे वर्षेण फलदः स्मृतः। द्वितीये चाष्टभिर्मासैस्त्रिभिर्मासैस्तृतीयके ॥ २५ ॥ चतुर्थे पुनरेकेन दशाहेनारुणोदये। सूर्योदये पुनः सद्यः शुभाशुभमयोऽपि हि ॥ २६ ॥ (युग्मम्) ततः परं तु यो दृष्टो मालास्वप्नस्तथा परः । मलमूत्रादिपीडोत्थः फलदो नैव स ध्रुवम् ॥ २७ ॥ पूर्व शुभोऽशुभः पश्चादशुभो वा ततः शुभः । पाश्चात्यः फलदो ज्ञेयः पूर्वदृष्टो निरर्थकः ॥ २८ ॥ चटनं गो-गज-वृक्षशैल-प्रासाद-वाजिषु । वर्चस्कलेपो रुदितं मरणं च तथा शुभम् ॥ २९ ॥ स्वप्ने पश्यति यः स्वर्ण नृपतिं दन्तिनं हयम् । वृष धेनुं च तस्य स्यात् कुटुम्बे वृद्धिरुत्तमा ॥ ३०॥ ताम्बूलं मौक्तिकं शङ्ख वस्त्रं दधि च चन्दनम् । कुन्दं बकुल-जाती च पद्मं धनविवृद्धये ॥ ३१ ॥ प्रासादोपरि यो भुङ्क्ते पद्मपत्रे सरस्सु वा । सिन्धुं तरति बाहुभ्यां सोऽपि राजा भविष्यति ॥ ३२ ॥ कन्यां छत्रं फलं पक्कं दीपमन्नं महाध्वजम् । मन्त्रं वा लभते यो हि तस्य चिन्तित सिद्धयः॥ ३३ ॥ उपानहं पादुकां च कृपाणं निर्मलं तथा । स्वप्ने पश्यति यः कश्चित् तस्य ग्रामान्तरं भवेत् ॥ ३४ ॥ नावं चटति यः स्वप्ने चाभग्नायां मागचायत यययययययययययययययययय ॥३॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy