________________
श्रीजैन कथासंग्रहः
॥२॥
कल्पवल्लीव यत्र च । सुमनोजनः सर्वार्थसाधकः साधुसंस्तुतः ॥ ८ 11 षष्टिकोष्ठक संयुक्तोऽक्षरप्रकृतिभासुरः । यत्नशाली देव इव वप्रो यत्र सुरक्षकः ।। ९ । तत्रास्त्य जितसेनाख्यो नृपतिः सार्थकाह्वयः । लक्ष्मीयुक्तः प्रजारक्षाकरो विष्णुरिवावनौ ।। १० । रणे शूरो नते सोमो वक्र वक्रे बुधो बुधे । वाण्यां वाचस्पतिः काव्ये कविर्मन्दोऽक्रियासु यः ।। ११ ।। तथाप्येनमिनं केsपि राजानमपरे जगुः । बुधं परे कविं चान्ये न तु ग्रहमयं बुधाः ।। १२ ।। राजप्रसादसंपन्नः कमलोदय भासुरः । लक्ष्मीयुक्तो जिनासक्तो गम्भीरः पोतसंयुतः ॥ १३॥ मणिमुक्ताफलाकीर्ण आस्ते तस्याश्च विश्रुतः । मध्ये रत्नाकरः श्रेष्ठी बहिरप्यपरः स च ॥ १४ ॥ विविधान्यस्य रत्नानि गेहे सन्ति तथाप्यसौ । रत्नत्रय गुरोर्लब्धां हृदयाद् नैव मुञ्चति ।। १५ ।। सरस्वतीति तस्यास्ति प्रिया शीलगुणोज्ज्वला | विचारसारचतुरा देहिनीव सरस्वती ।। १६ ।। पुमर्थं सेवतस्तस्य कामसंज्ञं तया समम् । कियानपि ययौ कालो धर्मार्थार्जनपूर्वकम् ।। १७ ।। अथान्यदा सान्ध्यविधिं विधाय विधिवद्वरा । स्वप्नान्तः सुखशय्यायां रत्नराशिं ददर्श सा ।। १८ ।। ततः सा जाग्रती तस्थौ धर्म्मकर्म्मपरायणा । दृष्ट्वा स्वप्नं शुभं यस्माद् न स्वप्यं फलमिच्छता । १९ ।। प्रगे सा कथयामास पत्ये तं सोऽपि तद्वचः । श्रुत्वोवाचावयोः किञ्चिद् भद्रे ! भद्रं भविष्यति ॥ २० ॥ विशेषज्ञानबोधार्थं स्वप्नशास्त्रविदं प्रति । उपढौक्य फलाद्युच्चैः स्वप्नशास्त्रं स
रत्नचूडकथा
॥२॥