________________
श्रीजैन कथासंग्रहः
श्रीविष्णुकुमार मुनिचरित्रं ॥
॥७॥
NDEDNDRENDARDARDARPRERPREERPRE
SECRENEARBANDANERNEENDENERNERBANDARD
, वत्स! असौ नमुचिः शिक्षयितव्यः, इत्युक्त्वा गुरुभिरपि सकलो वृत्तान्तस्तस्मै निवेदितः । तत् श्रुत्वा विष्णुकुमारो मुनिनृपसभायां गतः, तं समागतं दृष्ट्वा नमुचिं विना सर्वेऽपि सभाजना: समुत्थितास्तस्य । वन्दनं व्यधुः । ततोऽसौ मुनिर्नमुचिं प्राह, भो नमुचे ! त्वमधुना प्रजापालको नृपोऽसि, नृपेण च प्रजानां .. विशेषतच त्यक्तसंसाराणां साधूनां रक्षणं विधेयं । किंचाधुना वर्षाकालो विद्यते, ततो धर्मध्यानपरा: साधवोऽन्यत्र गन्तुमशक्ताः सन्ति, तेन तेषां निवासार्थ त्वं स्थानं देहि, तत् श्रुत्वाधिकारमदोन्मत्तेन । तेन द्वेषिणा नमुचिना प्रोक्तं, युष्मद्वचसाहं त्रिपदीमात्रमेव स्थानं तेषां निवासार्थ यच्छामि, ततोऽधिकं नैव दास्यामि । तत् श्रुत्वा विष्णुकुमारमुनिना ध्यातं, असौ दुष्टो विना शिक्षा नैव मंस्यते। इति विचार्य क्रोधाम्मातचेतसा तेन मुनिना तत्रैव निजलब्धिबलेन लक्षयोजनप्रमाणं निजशरीरं विकुर्वितं, एवं तदीयं विराटस्वरूपं विलोक्य आस्तां तत्पुरजनाः जगन्निवासिनः सर्वेऽपि मनुष्या भयभीताः कम्पमानाङ्गा जाताः । एवं विराटस्वरूपोऽयं विष्णुकुमारमुनिर्निजमेकं पादं पूर्वसमुद्रे द्वितीयं च पादं पश्चिमसमुद्रे मुक्त्वा नमुचिं प्राह, भो नमुचे ! अथ तृतीयं पादमहं कुत्र मुञ्चामि ? इत्युक्त्वा पृर्वी कम्पयित्वा स मुनिनिजं तृतीयं पादं तस्य नमुचेरेव मूर्मि तथा मुमोच, यथाऽसौ पातालं प्रविष्टो भूत्वा नरकातिथिर्बभूव, तदादितश्च विराटस्वरूपविष्णुना हतो बलिः पातालं प्रविष्ट इति जनप्रवादोऽभूत् । अथैवं तस्य
Swadadaasasdadadadadadadada EEEEEEEEEEEEEE
॥७॥