________________
श्रीजैन
श्रीविष्णुकुमार मुनिचरित्रं ॥
कथासंग
॥८॥
महामुनेर्भयङ्करं विराटस्वरूपं निरीक्ष्य देवलोके इन्द्रादीनां देवानां हृदयेष्वपि महान् क्षोभो बभूव । तदा सौधर्मेन्द्रो निजावधिज्ञानेन विज्ञाय तस्य मुनेः क्रोधोपशमनार्थ मेनकायप्सरोगणं समादिदेश, सर्वा अप्यप्सरसस्तत्र हस्तिनागपुरे समेत्य शान्तरसाविर्भावसमर्थ नानाविधं नाटकं तस्य मुनेः क्रोधशान्त्यर्थ कर्तु लग्नाः । एवं कथञ्चित् क्रमेण तं मुनीशं शान्तक्रोधं विधायोप्सर स: नत्वा देवलोकं गताः, उपशान्तक्रोधः स विष्णुकुमारमुनीशोऽपि गुरुपार्वे समागत्यालोचनां व्यधात् । श्रुताखिलवृत्तान्तो महापद्यचत्र्यपि मुनीनां समीपे समेत्य निजापराधं क्षमयामास, लोकैश्च पतितानि स्वकीयगृहाणि पुनः सज्जीकृतानि धवलितानि च । ततः प्रभृतिं च लोका दीपालिकायां गोमयबलिरूपं कुर्वन्ति, निजगृहाणि च चूर्णादिना धवलयन्ति। विष्णुकुमारमुनेरुपदेशेन महापद्मश्चक्रयपि सकलामपि महीं जिनमंदिरैमंडितां विधाय स्थाने स्थाने चानेकदानशाला निर्माय सप्तसु क्षेत्रेषु बहुद्रव्यव्ययं करोति स्म । अनेकदेवैः सेव्यमानचरणारविंदः स विष्णुकुमारमुनिरपि महीतले विहरन्ननेकभव्यजीवान् विबोधयामास । क्रमेण च सम्प्राप्तकेवलज्ञानोऽसौ महामुनिर्मुक्तिपुरी ययौ । उक्तं च-मुनेः प्रशान्तादपि कोपवह्नि-रुत्पद्यते क्रूरपराभवेन ॥ शीताद्यथा चन्दनतोऽतिघृष्टा-द्भानूपलाद्वह्निरिवांशुयोगात् ॥ १ ॥ विष्णोर्महर्षेत्रिपदीसमस्या । जगत्त्री या युगपज्जगाहे ॥ परः शताः सन्तु परे कवीन्द्राः । सम्पूर्यते
॥८॥