________________
वाजवल
श्रीजैन कथासंग्रहः
श्रीविष्णुकुमार मुनिचरित्रं॥
॥६॥
DEDEDEDORDEBEDDEDAPP bobodnobodovaudsarasas
विद्यते, साम्प्रतं चास्माभिः किं विधेयं ? किं कोऽप्यस्य दुष्टस्य नमुचे: शिक्षां दातुं समर्थः साधुर्विद्यते ? तत् श्रुत्वा साधवः प्रोचुः, भगवन् ! विष्णुकुमारो मुनिः षष्टिवर्षसहस्राणि यावत्तीव्र तपः कुर्वाणोऽस्ति, तत्तपःप्रभावाच्च तस्य भूरिलब्धयः समुत्पन्नाः सन्ति, स चास्य महापद्यचक्रिणो ज्यायान् भ्राता विद्यते, स एवैनं नमुचिं साम्त्वयितुं, वा शिक्षां दातुं समर्थोऽस्ति । परं साम्प्रतं स मेरुपर्वते कायोत्सर्गध्यानस्थो विद्यते । तत् श्रुत्वा गुरुराह, किं कोऽपि साधुस्तं महामुनि ततोऽत्र समानेतुं समर्थोऽस्ति ? तदैकेन साधुना प्रोक्तं, भगवन् ! अहं तत्र मेरुशिखरे गन्तु समर्थोऽस्मि, परं ततः पश्चादत्रागन्तुमसमर्थोऽस्मि। तत् श्रुत्वाऽश्वस्तैर्गुरुभिस्तं साधुंडप्रति प्रोक्तं, भो महाभाग! त्वं तत्र मेरुशिखरे गत्वा सर्वमप्येनं वृत्तान्तं मदीयसंदेशपूर्वकं तस्मै निवेदय, स एक च महासमर्थों वाचंयमेशो निजलब्धिशक्त्या त्वामपि सुखेनात्रानेष्यिति । एवं गुर्वादेशं लब्ध्वा स मुनिर्निजविद्याबलेन क्षणत एव मेरुशिखरे संप्राप्तः. तत्र च तं विष्णुकुमारमुनि नत्वा सविस्तरं गुरुसंदेशं श्रावयामास, पुनः कथितं च भवतामागमनं विना तत्र सर्वेषामपि साधूनामकाले एव हननं भविष्यति । तत् श्रुत्वा सङ्यापायनिवारणार्थ स विष्णुकुमारवाचंयमस्तेन साधुना सहितस्तत्क्षणं हस्तिनागपुरे गुरूणामुपाश्रये समागमत् । अथ वन्दनपूर्वकं गुरोः पुरः समुपविश्य कृताञ्जलिर्विष्णुकुमारो मुनिराह, भगवन् ! आदेशो दीयतां, गुरुभिरुक्तं
ज
॥६॥
Mala