________________
श्रीजैन कथासंग्रहः
श्रीविष्णुकुमार मुनिचरित्रं ॥
॥५॥
wwsandalwadaजवाजवाजवाजवाजवाज [EBONDOREANISTERPETECTECENDANDANERNE
महामुनेस्तपः प्रभावादनेका लब्धयः समुत्पन्नाः । अथ ते श्रीसुव्रताचार्या भुवि विहरन्तो भव्यजनांश्च प्रतिबोधयन्तोऽन्येास्तत्र हस्तिनापुरे समागत्य वर्षासु चतुर्मासी स्थिताः। इतस्तेषां तत्र वर्षावासं निशम्य स दुष्टो नमुचि: सचिवः पूर्वजातं निजपराभवं संस्मृत्य निजवैरयातनाथ लब्धावसरः कपटेन योजिताञ्जलिमहापद्यं चक्रिणं विज्ञपयामास, स्वामिन् ! साम्प्रतमहं यज्ञारम्भं कर्तु वाञ्छामि, अतो मदीयस्थापितपूर्ववरानुसारेण सप्तदिनानि यावन्मह्यं राज्यं देहि, राजापि पूर्व स्वयमर्पितं वरं संस्मृत्य सप्तदिनानि यावत्तस्मै निजराज्यं समर्पयामास । स्वयं च धर्मघ्यानलीनो निजाऽऽवासे एव तस्थौ। अथ तेन मायिना नमुचिना महताडम्बरेण यज्ञारम्भो विहितः, तद्दर्शनार्थ सर्वेऽपि पौरा नमुचेः पार्श्व समीयुः, अन्ये सर्वदर्शनाऽऽचार्या अपि नमुचिं स्तुत्यादिभिर्वर्धापयामासुः, परं सुव्रताचार्यास्तं मिथ्यात्विनं विज्ञाय तत्र न समायाताः । तदा क्रुद्धेन तेन नमुचिना तेषामुपाश्रये समेत्य तेभ्यो मुनिभ्यः प्रोक्तं, भो पाखंडिनः ! युष्मासु केनापि साधुना मदीयराज्ये न स्थेयं । गुरुभिरुक्तं भो नमुचे ! अधुना वर्षाकालप्रारम्भो जातः, अतो वयं जैनमुनयो विहारं कर्तुमक्षमाः, एवमुक्तोऽपि स दुष्टः कथञ्चनापि स्वदुराग्रहान्न विरमते स्म। अथ श्वः प्रभाते यद्यहं युष्मन्मध्यात्कमप्यत्र द्रक्ष्यामि तर्हि नूनं तं मारयिष्यामीत्युक्त्वा स निजस्थाने गतः । एवं धर्मसङ्कटे पतितो गुरुः सर्वानपि साधून मेलयित्वा प्राह, भो मुनयः ! अयं नमुचिर्महादुष्टो
NDEPENDENDENDANDANDERDANDRDENDANDEY alwalawwalwaalwamalजबाबा