________________
श्रीजैन कथासंग्रहः
श्रीविष्णुकुमार मुनिचरित्रं ॥
RENDINDONESIDEBEDEMIMasala
दर्शयामास. तदा सोऽपि तं दुर्दान्तं निजवैरिणं हतं विलोक्यातीवसंतुष्टो नमुचिं प्रति प्राह, मो नमुचे ! अहं तवोपरि भृशं संतुष्टोऽस्मि, अतस्त्वं वांछितं बरं मार्गयस्व, तत् श्रुत्वा नमुचिराह, स्वामिन् ! अधुनेमं वरं भवतः कोशे स्थापयतु, कस्मिंश्चिदवसरेऽहं मार्गयिष्यामि. तदा युवराजेनाऽपि मुदा तदीयवचनं प्रतिपन्नं । अथैकदा तस्य महापगनृपस्य जनन्या ज्वालादेव्या यात्रार्थ जिनरथः कारितः, तदैव तत्सपल्या लक्ष्मीदेव्या राज्यापि यात्रार्थ ब्रह्मरथः कारितः, अथ ज्वालादेव्या प्रोक्तं; मदीयो जिनरथोऽग्रे चलिष्यति । लक्ष्मीदेव्या च कथितं मदीय एवं ब्रह्मरथोऽग्रे चलिष्यति. एवं तयोर्जायमानं परस्परं विवाद निर्णतुमक्षमः पद्मोत्तरो राजा तयोर्द्वयोरपि रथयोर्यात्रां निषेधयामास. एवं राज्ञा कृतं निजमातुरपमानं विज्ञाय महापनो युवराजो नमुचियुतो देशांतरे ययौ. ततः स दिग्विजयं विधाय कियता कालेन नृपेणाऽऽहूतो निजनगरे समायातः । अथ स पद्योत्तरो नृपस्तं महापचं राज्येऽभिषिच्य स्वयं विष्णुकुमारेण सह श्रीमुनिसुव्रतप्रभुपार्वे संयममगीचक्रे । ततो राज्योपविष्टः स महापयो नृपो महताडम्बरेण महोत्सवपूर्वकं जिनरथयात्राकरणादिना निजमातुर्मनोरथं पूरयामास । इतस्तस्याऽऽयुधशालायां चक्ररत्नं समुत्पन्नं, तदनुसृतोऽसौ चतुर्विधसैन्ययुत: षट्खंडं भारतं साधयामास । द्वादशवर्षाणि यावच्च तस्य चक्रित्वाभिषेको बभूव । इतश्च दुस्तपं तपस्तपतस्तस्य विष्णुकुमारस्य
HEREHENDINENENERNENENDARDNE
॥४॥