________________
श्रीजैन कथासंग्रहः
11311
करिष्ये । ततः पौराभ्यर्थनया शासनदेव्या च स जीवन्मुक्तः, अर्थ लोकनिन्दया लज्जितोऽसौ ततो - निःसृत्य मनसि क्षुल्लकमुनिकृतस्वीयपराभवं स्मरन् क्रमेण हस्तिनागपुरे समायातः, तत्र च स महापद्मयुवराजस्य मिलितः । क्रमेण स निजवचनचातुर्येण तं भृशं प्रीणयामास । तद्वचनकलावशीभूतो महापद्म युवराजस्तं निजामात्यपदवीमदात् । अथ सामंतसिंहाख्यः पल्लिपतिस्तस्मिन् महापद्मयुवराजे वैरं वहन् बहुवेलं तदीयदेशं भुनक्ति स्म । राज्ञा च तस्य वधार्थं वा जीवद्ग्रहणार्थं बहव उपायाः कृताः परं सर्वेऽपि निष्फला जाता:, दुर्दान्तं हन्तुं ग्रहीतुं वा कोऽपि समर्थो नाऽभूत् । अथैकदा तेन दुष्टेन सामंतसिंहेन तस्य महापद्यनृपस्यैकं ग्रामं भङ्क्त्वा बहवो व्यापारिणो लुण्टिताः, नृपाऽऽरक्षकाश्च हताः । ततोऽतीवक्रुद्धो महापद्मयुवराजः सभायामागत्योवाच भो सुभटाः ! यः कोऽपि सुभट एनं दुष्टं सामंतसिंहं मारयिष्यति वा जीवंतं गृहीत्वाऽत्र ममाग्रे समानेष्यति तमहं वाञ्छितं दास्यामि, तत् श्रुत्वा सर्वेषु सुभटेषु मौनीभूतेषु नमुचिः साहसं विधाय जगाद्, हे स्वामिन्! भवतां प्रसादादहमेव स्वयं नूनं तस्य निग्रहं विधास्ये । तत् श्रुत्वा युवराजेनाभिनन्दितोऽसौ शस्त्रधारिसुभटशतयुतः स्वयं सन्नाहं परिधायाश्वाऽऽरूढस्ततश्चचाल । प्रच्छन्नं तत्पल्लीं प्राप्तोऽसौ निशायां गृहसुप्तमेव तं परितो वेष्टयामास, निद्राधीनमेव च तं खड्गेन जघान । ततस्तदीयमस्तकयुतः स पश्चाद्वलित्वा युवराजाग्रे समागत्य तन्मस्तकं
श्रीविष्णुकुमार मुनिचरित्रं ॥
॥३॥