________________
श्रीजैन कथासंग्रहः
॥२॥
यौवनश्रियं प्राप्तौ । विंशतिधनुर्देहमानी तौ त्रिंशद्वर्षसहस्रप्रमाणवयस्कौ जातौ । तदा पित्रा स महापद्मकुमारो महोत्सवपुरस्सरं यौवराज्येऽभिषिक्तः । इतश्चावन्त्यां नगर्या श्रीधर्माख्यो राजा राज्यं करोति स्म, स च मिथ्यात्वाभिनिविष्टः सदा जैनधर्मद्वेषं चकार । तस्य नमुचिनामा सचिवोऽपि मिथ्यात्वाभिभूतो विशेषतो जैनधर्मनिन्दकोऽभूत् । इतश्च श्रीमुनिसुव्रतस्वामिनः शिष्याः श्रीसुव्रताभिधाना आचार्या निजपरिवारयुता विहरन्तस्तत्रावन्त्यां नगर्यां समवसृताः, तदा हृष्टाः पौरजनास्तान् वन्दितुं । तेषां वदनसुधाकरस्य च धर्मोपदेशामृतं पातुं तत्समीपे समायाताः । एवं तेषां वन्दनार्थमुद्याने गच्छतः । पौरान्निरीक्ष्य प्रकटितेर्ष्याग्निः स नमुचिसचिवो विवादे तज्जयार्थं कृतप्रतिज्ञो बहिरुद्याने समायातः, मदोद्धतोऽसौ यथातथा जल्पन् सभासमक्षं तेषामाचार्याणामेकेन क्षुल्लकशिष्येण तत्पक्षं खण्डयता निरुत्तरीकृतः, एवं पराभूतो लोकैश्च विहस्यमानोऽसौ विड्गीभूतोऽधिकं द्वेषं वहन् निजस्थाने समाययौ । ततः स कथञ्चित्तद्दिनमुल्लंघ्य रात्रौ तस्य क्षुल्लकस्य वधार्थं स्वयमेकाकी खड्गपाणिरुद्याने थयौ । परं शासनदेव्या स उद्यानद्वाराग्रे एव तथैव स्तंम्भितः । अथ प्रभाते तं तथैव खड्गपाणिं तत्र स्तभितं स्थितं विलोक्य मिलिता लोका, मुनिवधार्थमेवागतं तं मन्यमाना भृशं निर्भर्त्सयामासुः ततोऽसौ खिन्नस्तां शासनदेव मुनिगणं च मिष्टवचनैः क्षमयामास जगाद च भो देवि ! अतः परमहमेवंविधमपराधं न
श्रीविष्णुकुमार मुनिचरित्रं ॥
॥२॥