________________
श्रीपालचरित्रम्।
श्रीजैन कबासंग्रहः
॥९॥
यत् ॥ ९६ ॥ इति तद्वचनं श्रुत्वा मदना साश्रुलोचना। जगौ भूयोऽपि नो वाच्यमिदं नाथ! वचो मयि ॥९७॥ प्रथमं महिलाजन्म कीदृशं तत्पुनर्भवेत् । चेच्छीलविकलं तद्धि काञ्जिकं क्वथितं ननु ॥ १८ ॥ तत्प्राणनाथ ! मरणं त्वमेव शरणं मम । उदगच्छत्सहस्रांशुवंदतोरेवमेतयोः ॥ ९९ ॥ मदनावचसा प्रातरुम्बरेशः समं तया । श्रीमदर्हद्गृहं प्राप्तो युगादिजिनमानमत् ॥ १०॥ अथ प्रसन्नवदना मदना मधुरस्वरा । प्रणम्य श्रीयुगादीशं स्तोतुमेवं प्रचक्रमे ॥१०१।। जयादिवरराजेन्द्र ! जय प्रथमनायक!। जय प्रथमयोगीन्द्र ! जय प्रथमतीर्थप ! ॥ १०२ ॥ भवार्णवे जरामृत्युरोगदुःखोर्मिसङ्कले । मजतां यानपात्राभस्त्वमेव जिन ! दृश्यसे ॥ १०३ ॥ त्वं मे माता पिता प्राता बन्धुः स्वामी सुहृद्गुरुः । गतिर्मतिर्जीवितव्यं शरणं च नमोऽस्तु ते॥१०४॥ घोररोगाहिता येऽत्र ये च दुःखैः प्रपीडिताः। ते सर्वे सुखितां यान्ति त्वत्पादाब्जप्रसादतः ॥ १०५ ॥ इति स्तुतो मया भक्त्या श्रीयुगादिजिनेश्वरः । मनोऽभिमतदानाय भव कल्पद्रुमोपमः ॥ १०६ ॥ इत्थं जिनस्तुतिपरा मदना यावदस्ति सा । फलेन तावत्पुष्पसक जिनकण्ठादुदच्छलत् ॥१०७॥ जगृहे मदनोक्तेनोम्बरराजेन तत्फलम् । पुष्पमालां स्वयं चाऽऽदादानन्दोद्यतमानसा ॥ १०८ ॥ भणितं च तया स्वामिन् ! गतो रोगस्तनोस्तव । जातो येतेष संयोगो जिनराजप्रसादतः॥१०९॥ मदनाथ युता पत्या मुनीन्दुगुरुसन्निधौ। प्राप्ता प्रणम्य तत्पादाविति
॥९॥