________________
श्रीजैन कथासंग्रहः
श्रीपालचरित्रम्।
॥१०॥
शुश्राव देशनाम् ॥११०॥मानुष्यत्वं कुलं रूपं सौभाग्याउरोग्यसम्पदः । स्वर्गापवर्गसौख्यानि लभ्यन्ते पुण्ययोगतः॥१११॥ एवं श्रीधर्ममाहात्म्यं विज्ञाय जगदद्भुतम्। मिथ्यात्वपरिहारेण तत्र यत्नो विधीयताम् ॥ ११२ ॥ इहाऽऽस्तां विभवो भूयान् कुटुम्बं च महत्तमम् । परं भवान्तरेऽवश्यं पुण्यमेव सहचरम् ॥११॥ देशनान्ते गुरुः प्राह वत्से ! कोऽयं नरोत्तमः ?। मदनापि रुदत्त्याऽऽख्यत् सर्व वृत्तान्तमादितः ॥११४ ॥ विज्ञप्तं च विभो! नाऽन्यन्मम दुःखं हि किञ्चन । परं मिथ्यादृशो जैन धर्म निन्दन्ति तन्महत्॥ ११५॥ कृत्वा प्रसादं तत्किञ्चिदुपायं कथय प्रभो!। समं लोकाऽपवादेन येनेयं क्षीयते हि रुक्॥११६ ॥ कृपाऽऽर्द्रमानसोऽथाऽऽख्यद् गुरुस्तहुःखदुःखितः । भद्रेऽनवद्यं कुर्वाराधनं नवपदात्मकम् ॥११७ ॥ अर्हन्तः सिद्धाचार्योपाध्यायाः सर्वेऽपि साधवः । दर्शनज्ञानचारित्रतपांसीति पदानि च ॥ ११८ ॥ एतैः पदैविरहितं तत्त्वं नास्त्यत्र किञ्चन। एतेष्वेव तथा दृष्टिवादः सर्वोऽवतीर्णवान् ॥ ११९॥ सिद्धाः सिद्ध्यन्ति सेत्स्यन्ति ये जीवा भुवनत्रये । सर्वेऽपि ते नवपदाराधनेनैव निश्चितम् ॥ १२०॥ एतैर्नवपदैः सिद्धं सिद्धचक्रं प्रकीर्तितम् । तदष्टदलपद्यस्थं ध्येयं ध्यानपरायणैः ।। १२१ ॥'नादबिन्दुकलोपेतं मायाबीजसमन्वितम् । आदौ प्रणवसंयुक्तं ध्यायेदर्हन्तमन्तरा ॥ १२२ ॥ सिद्धादीनि चतुर्दिक्षु १ॐ ह्रीं
॥१०॥