SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीपालचरित्रम्। ॥१०॥ शुश्राव देशनाम् ॥११०॥मानुष्यत्वं कुलं रूपं सौभाग्याउरोग्यसम्पदः । स्वर्गापवर्गसौख्यानि लभ्यन्ते पुण्ययोगतः॥१११॥ एवं श्रीधर्ममाहात्म्यं विज्ञाय जगदद्भुतम्। मिथ्यात्वपरिहारेण तत्र यत्नो विधीयताम् ॥ ११२ ॥ इहाऽऽस्तां विभवो भूयान् कुटुम्बं च महत्तमम् । परं भवान्तरेऽवश्यं पुण्यमेव सहचरम् ॥११॥ देशनान्ते गुरुः प्राह वत्से ! कोऽयं नरोत्तमः ?। मदनापि रुदत्त्याऽऽख्यत् सर्व वृत्तान्तमादितः ॥११४ ॥ विज्ञप्तं च विभो! नाऽन्यन्मम दुःखं हि किञ्चन । परं मिथ्यादृशो जैन धर्म निन्दन्ति तन्महत्॥ ११५॥ कृत्वा प्रसादं तत्किञ्चिदुपायं कथय प्रभो!। समं लोकाऽपवादेन येनेयं क्षीयते हि रुक्॥११६ ॥ कृपाऽऽर्द्रमानसोऽथाऽऽख्यद् गुरुस्तहुःखदुःखितः । भद्रेऽनवद्यं कुर्वाराधनं नवपदात्मकम् ॥११७ ॥ अर्हन्तः सिद्धाचार्योपाध्यायाः सर्वेऽपि साधवः । दर्शनज्ञानचारित्रतपांसीति पदानि च ॥ ११८ ॥ एतैः पदैविरहितं तत्त्वं नास्त्यत्र किञ्चन। एतेष्वेव तथा दृष्टिवादः सर्वोऽवतीर्णवान् ॥ ११९॥ सिद्धाः सिद्ध्यन्ति सेत्स्यन्ति ये जीवा भुवनत्रये । सर्वेऽपि ते नवपदाराधनेनैव निश्चितम् ॥ १२०॥ एतैर्नवपदैः सिद्धं सिद्धचक्रं प्रकीर्तितम् । तदष्टदलपद्यस्थं ध्येयं ध्यानपरायणैः ।। १२१ ॥'नादबिन्दुकलोपेतं मायाबीजसमन्वितम् । आदौ प्रणवसंयुक्तं ध्यायेदर्हन्तमन्तरा ॥ १२२ ॥ सिद्धादीनि चतुर्दिक्षु १ॐ ह्रीं ॥१०॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy