SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीपालचरित्रम्। ॥८॥ ॥८२॥ मातृमातुलमुख्योऽथ परिवारोऽसमञ्जसम् । तद् दृष्ट्वा कुरुते हाहारवं शोकभरादितः ॥ ८॥ तथापि नृपतिः कोपाटोपात्रैव निवर्त्तते । ज्ञाततत्त्वा मदनापि न सत्त्वाच्चलिता मनाक् ॥ ८४ ॥ याति वेसरमारोह्य मदनामुम्बरे नृपे । एके वदन्ति धिग्भूपमविचारिशिरोमणिम् ॥ ८५ ॥ दैवं केचित्सुतां केचिजिनधर्म च केचन । केऽपि निन्दन्त्युपाध्यायं नैकवाक्यो जनो यतः ॥ ८६ ॥ शृण्वत्येवं वचांस्युच्चैरुम्बरेण समं ययौ । हृष्टेन पेटकेनाऽपि चक्रे पाणिग्रहोत्सवः ॥ ८७॥ राज्ञाऽथ सुरसुन्दर्या विवाहार्थ निमित्तवित् । पृष्टः प्राह महालग्नमभून्मदनया यदा॥ ८८ ॥ कुष्ठिनोऽस्य करोऽग्राहि साम्प्रतं तु न तादृशम् । राजापि प्राह हुं ज्ञातं लग्नस्यास्य फलं मया ॥ ८९ ॥ अधुनापि निजां पुर्वी सुमहेन विवाहये। इत्युक्त्वा मुदितो राजा विवाहं कृतवांस्तयोः। ॥९०॥ कुमारोऽथाऽरिदमनः परिणीय निजां पुरीम् । प्रस्थितः सुरसुन्दर्या समं लोकैर्निरीक्षितः॥ ११॥ भणन्त्येकेऽनयोर्योगं कृतवान् कीदृशं विधि: । सुविनीता महापुण्या यद्वासी सुरसुन्दरी॥९२॥ नृपं केचिद्बरं केचिजनास्तदा। प्राशंसन् शिवधर्म च केचित्केचिच्च पण्डितम् ॥ ९३ ॥ सन्मानं सुरसुन्दर्या मदनाया विडम्बनम् । दृष्ट्वा समग्रलोकोऽपि समदुःखसुखोऽभवत् ॥ ९४ ॥ इतश्च कुष्ठिना तेन भणिता मदना निशि। याहि भद्रे! नरं कञ्चिद् यौवनं सफलीकुरु ॥ १५॥ पेटकेन च तिष्ठन्त्या भविता सुन्दरं न ते। प्राय: कुसङ्गजनितं कुष्ठमासीन्ममापि 000000wwwwwwa ॥८॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy