________________
श्रीजैन कथासंग्रहः
श्रीपालचरित्रम् ।
॥७॥
नाथाऽस्माकमुम्बरराणकः । सर्वत्र मान्यते सर्वैर्दानमानादिभिर्भृशम्॥६९॥ तेनाऽस्माकं धनस्वर्णादिभिः कार्य न किञ्चन । पुनरस्मत्प्रभोरेका राज्ञी कापि न विद्यते॥ ७० ॥ कृत्वा प्रसादं तद्भूप! कन्यामेकां प्रदापय। युष्महत्तेन चाऽन्येन कृतं स्वर्णधनादिना॥७१॥ निषिद्धो मन्त्रिणा भूयोऽप्यवदद् गलिताङ्गुलिः । श्रुतास्माभिर्नृपस्यास्य कीर्तिरेवंविधा यथा ॥ ७२ ॥ कुरुते प्रार्थनाभङ्गं मालवेशो न कस्यचित् । हारयत्वेष तां कीर्तिं यद्वा यच्छतु कन्यकाम् ॥ ७३ ॥ बभाण भूपो युष्मभ्यं दास्यामि वरकन्यकाम् । हारयेत्स्वल्पकार्येण यतः कः कीर्तिमात्मनः?॥७४॥याऽसौ कृतघ्नतनया सा देयाऽस्मै मया ध्रुवम्। ध्यात्वेति नृपतिः सद्यो वलित्वाऽऽगानिकेतने ॥ ७५ ॥ आकार्य मदनां प्राह भूपोऽद्यापि हि मन्यसे । मत्प्रसादं तद्वरेण प्रवरेण विवाहये॥७६ ॥ चेन्पुनर्निजकमैव मन्यसे तेन सम्प्रति । समानीतोऽस्त्यसौ कुष्ठी वरस्तत्त्वं वृणु स्वयम् ॥ ७७ ॥ आहूय कुष्ठिनामीशं नृपः प्रादानिजां सुताम् । स च प्रोवाच भो राजन् ! किमयुक्तं ब्रवीष्यदः॥७८॥ एकमग्रेऽप्यहं पूर्वकृतकर्मभवं फलम्। भुञ्जानोऽस्या: स्त्रियो देव! कथं जन्म विनाशये ? ॥ ७९ ॥ त्वं चेद्दास्यसि तद्देहि दास दासीसुतामथ । न चेत्तत्तेऽस्तु कल्याणं व्रजामि स्वनिकेतने ॥ ८० ॥ बभाण भूपो भद्रेयं मन्यते कर्मणः फलम् । तेनासि त्वमिहानीतो विचारं हृदि मा कुरु॥८१॥ श्रुत्वेति मदनोत्थाय तस्योम्बरवरस्य सा। विवाहलग्नवेलायां करं जग्राह पाणिना
॥७॥