________________
श्रीजैन
कथासंग्रहः
॥६॥
तुष्टो रुष्टो यमोपमः ॥ ५६ ॥ मदनोवाच धिग् लक्ष्मीलवलाभकृतेऽप्यमी । जानन्तोऽपि नृपस्याग्रे कुर्वतेऽलीकभाषणम् ।। ५७ ॥ किमथो बहुनोक्तेन तुभ्यं यस्तात ! रोचते । वरः स मेऽस्तु चेत्पुण्यं निर्गुणोऽपि गुणी ततः ॥ ५८ ॥ यदि वा पुण्यहीनाऽहं सुन्दरोऽपि वरस्ततः । असुन्दरो ध्रुवं भावी तात ! मत्कर्मदोषतः ।। ५९ ।। ततः प्रकुपितं ज्ञात्वा मन्त्री विज्ञप्तवान्नृपम् । स्वामिन्! समस्ति ते राजपाटिकासमयोऽधुना ॥ ६० ॥ प्रज्वलन्निव रोषेण घृतसिक्त इवाऽनलः । ससैन्योऽथ नृपो राजपाटिकार्थं विनिर्गतः ।। ६१ ।। पुराद्बहिरथो राजा निर्गच्छन् 'कुष्ठिपेटकं । दृष्ट्वा पप्रच्छ मन्त्रीशं सोऽप्युवाच यथातथम् ॥ ६२ ॥ देवाऽत्र नगरे सप्तशतसङ्ख्या: 'किलासिनः । तैः सम्भूयोम्बर 'व्याधिग्रस्त एको नृपः कृतः ॥ ६३ ॥ उम्बरराट् इति ख्यातोऽभितस्तैः कुष्ठिभिर्वृतः । वरवेसरमारूढो बम्भ्रमीत्यखिले पुरे ।। ।। ६४ ॥ महेभ्यानां कुले राजकुले मन्त्रिकुलेऽपि च । गृह्णन् स्वपञ्जिकादानमेष आयाति सन्मुखम् ।। ६५ ।। विहाय तदमुं मार्ग गम्यतेऽन्यपथा प्रभो ! । तथा कृते कुष्ठिनोऽपि वलितास्तत्पथि द्रुतम् ॥ ६६ ॥ राजा प्राह पुरो गत्वा मन्त्रिनेतान्निवारय । दत्त्वा प्रार्थितमप्येषां दर्शनं यन्त्र शोभनम् ॥ ६७ ॥ यावन्मन्त्री करोत्येतत्तावत्तत्पेटकाद् द्रुतं । गलिताङ्गुलिनामागात्कुष्ठी मन्त्री नृपाग्रतः ॥ ६८ ॥ स चावदन्नृपं १ कुष्ठिसमुदायं । २ कोढीया इति भाषायाम् । ३ कुष्ठरोग । ४ मुखमार्गितदानं ।
1
श्रीपालचरित्रम् ।
॥६॥