SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रीजेन कथासंग्रहः 11411 नृपोऽपि ज्ञाततन्मनाः । प्रोवाच ते वरः कोऽस्तु ? तुभ्यं वा रोचतेऽत्र कः ? ।। ४३ ।। तदनन्तरं प्रतिवाक्सज्जयाथ तयोदितं । तातपादाः संप्रसादाश्चेन्ममायं वरोऽस्तु तत् ॥ ४४ ॥ तथेति प्रतिपन्नेऽस्मिन् पर्षल्लोकोऽप्यदोऽवदत् । देवायमनयोर्योगो भाग्ययोगेन संभवेत् ॥ ४५ ॥ पित्राऽथ मदना पृष्टा वरार्थं सा तु लज्जया । जिनवाक्यवशोद्भूतविवेका नाऽह किञ्चन ॥ ४६ ॥ पुनः पृष्टा नरेन्द्रेण विहस्यैवं जगाद सा । तात ! किं पृच्छसीदं मां लज्जाकारं विवेक्यपि ॥ ४७ ॥ येनैवं कुलबालानां नोचितं हि वरार्थनम् । यस्मै दत्ते पिता तं तु वृणुते कुलबालिका ॥ ४८ ॥ निमित्तमात्रं हि वरप्रदाने पितरावपि । पूर्वबद्धो हि सम्बन्धो यस्माज्जन्तुषु जायते ॥ ४९ ॥ यद्येन यादृशं कर्मोपार्जितं स्याच्छुभाशुभम् । तत्तेन तादृशं सर्व भोक्तव्यं निश्चयादपि ॥ ५० ॥ कन्या पुण्याऽधिका या तु दत्ता हीनकुलेऽपि सा । सुखिता पुण्यहीना तु सुकुलेऽपि हि दुःखिता ॥ ५१ ॥ तत्तात ! ज्ञाततत्त्वस्य गर्वोऽयं ते न युज्यते । मत्प्रसादाऽप्रसादाभ्यां यज्जनः सुखदुःखभाक् ।। ५२ ।। य एव पुण्यवांस्तस्य त्वमप्याशु प्रसीदसि । पुण्यहीनस्तु यस्तस्य न प्रसीदसि जातुचित् ।। ५३ ।। इति तद्वचसा दूनो भूपः कोपकरालदृक् । प्राह रे ! मत्प्रसादेन वस्त्रालङ्करणादिकम् ॥ ५४ ॥ दधाना भव्यभोज्यानि भुञ्जानाऽपि निरन्तरम् । यदेवं वक्षि तेन त्वं स्वकर्मफलमाप्नुहि ॥ ५५ ॥ युग्मम् ॥ अथाह पर्षल्लोकोऽपि मुग्धेयं नाऽवगच्छति । त्वमेव कल्पवृक्षोऽसि श्रीपालचरित्रम् । ॥५॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy