________________
श्रीजैन कथासंग्रहः
श्रीपालचरित्रम्।
॥४॥
कृतकलाउभ्यासे ते कलाऽचार्यसंयुते। कलापरीक्षणकृते पितरं नन्तुमीयतुः॥३२॥ पित्राऽपि हष्टमनसा निवेश्यात्मीयपार्श्वयोः । द्वयोः प्रज्ञापरीक्षायै समस्यापदमर्पितम् ॥ ३३ ॥ यथा-पुण्णेहिं लब्भइ एह। ततस्तत्कालमत्यन्तगर्वचञ्चलचित्तया । पूरिता सुरसुन्दर्या समस्या शृण्वत: पितुः ॥ ३४ ॥ "धणजुव्वण-सुबहुपण, रोगरहियनियदेह । मणवल्लहमेलावडु पुण्णेहिं लब्भइ एह ॥ ३५ ॥ तच्छुत्वा नृपतिस्तुष्टः प्राशंसत्तत्कलागुरुम् । चतुर्विद्यानिधानेति परिषत्सकलापि च ॥ ३६ ॥ ततोऽपरा नृपादिष्टाऽपूरयन्मदनापि ताम् । स्वभावसदृशा वाचा जिनधर्मपरायणा ॥ ३७ ॥ विणय-विवेकपसन्नमण-सील-सुनिम्मलदेह । परमप्पहमेलावडु पुण्णेहिं लब्भइ एह ॥ ३८ ॥ ततस्तजननी चोपाध्यायस्तुष्टौ न चेतरे । यतस्तत्वोपदेशो न मुदे मिथ्यादृशां भवेत् ।। ३९ ॥ इतश्च कुरुदेशेऽस्ति नाम्ना शंखपुरी पुरी । दमितारिनृपस्तत्र प्रजां पाति पितेव यः ॥ ४० ॥ प्रतिवर्ष स चावन्तीपतिसेवार्थमाव्रजत् । तत्स्थानेऽथान्यदाऽऽगच्छत् सुतोऽरिदमनाभिधः ॥ ४१ ॥ दिव्यरूपं च तं वीक्ष्य चुक्षोभ सुरसुन्दरी । कामबाणैर्भृशं भिन्ना कटाक्षान् विक्षिपन्त्यथ ॥ ४२ ॥ तदेकतानां तां दृष्ट्वा 'पनयौवनं सुविदग्यत्वं रोगरहितनिजदेहं मनसः प्रियो यः पुरुषादिः तेन सार्द्ध सम्बन्धः एतद्वस्तुवृन्दं पुण्यैर्लभ्यते ।। % विनयो विवेकः प्रसन्नमनः शीलं सुनिर्मलदेहः । परमपथमोक्षमार्गमेलः एतद्वस्तुवृन्दं पुण्यैलभ्यते ।
WwwwwwOOOOOX
॥४॥