________________
श्रीपालचरित्रम्।
श्रीजैन कथासंग्रहः
॥३॥
स्मर सूरिपुरन्दरान् । सूत्रार्थाऽध्ययनपरान् स्मर वाचकपुङ्गवान् ॥ १८ ॥ शिवसाधनयोगेषु नित्योद्युक्तान्मुनीन् स्मर । जिनोक्ततत्त्वश्रद्धानं सम्यग्धारय दर्शनम् ॥ १९ ॥ पठ पाठय सद्ज्ञानं यानं भवमहार्णवे। चर दुश्चरचारित्रं तपस्तप सुदुस्तपम् । ॥२०॥ एतैर्नवपदैः सिद्ध सिद्धचक्रं प्रकीर्तितम्। श्रीधर्मसार्वभौमस्य सच्चक्रमिव मूर्तिमत् ॥ २१॥ एतानि नवसङ्ख्यान्यहंदादीनि पदानि यः । आराधयेत् स प्राप्नोति श्रीश्रीपाल इव श्रियम् ॥ २२ ॥ पृष्टवान् मगधेशोऽथ श्रीपाल: कोऽमुना कथम् । सिद्धचक्रं समाराम्य संप्राप्तं फलमुत्तमम् ? ॥ २३ ॥ उवाच गौतमेशोऽपि शृणु श्रेणिकभूपते !। श्रीसिद्धचक्रमाहात्म्यमतिचित्रकरं नृणाम् ॥ २४ ॥ तथाहि-इहैव भरतेऽवंतिदेशेषूजयिनी पुरी । पृथ्वीपालः प्रजापालस्तत्र नाम्ना गुणैरपि ॥ २५ ॥ तस्यावरोधे सौन्दर्यनिर्जिताशेषनायिके । जाते शुभे उभे देव्यौ देव्याविव भुवं गते ॥ २६ ॥ मिथ्यात्वमोहिता तत्रादिमा सौभाग्यसुन्दरी। सम्यक्त्ववासिता बादं द्वितीया रूपसुन्दरी॥२७॥अथो मिथ: प्रीतियुजोः सापल्येऽपि तयोः समम् । आपन्नसत्त्वयोर्जाते उभे कन्ये मनोहरे॥२८॥ प्रमोदात्कारयामास पिता जन्मोत्सवं तयोः । सुरसुन्दरी मदनसुन्दरीत्यभ्यधत्त च॥२५॥ समं समर्पिते ते च शैवजैनमतज्ञयोः। शिवभूतिसुबुद्भ्याख्याऽऽचार्ययोः पाठहेतवे॥३०॥ परं तथाविधाचार्ययोगात्प्रागल्भ्यमेतयोः । शैवे जैने मते चासीच्छिष्यस्तादृग् यथा गुरुः॥ ३१॥ इत्थं