SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीजेन श्रीपालचरित्रम्। कथासंग्रहः ॥२॥ मेघनामकः । एवमाद्या अनेकेऽपि विवेकेनाऽन्विताः सुताः ॥ ५॥ वसन्ति यत्र श्रीशालिभद्राऽद्या इभ्यपुङ्गवाः । यत्र वैभारगिरिणा भूषितोपान्तभूतलम् ॥६॥ तत्रान्यदा निजपदैः पुनातुं पृथिवीतलम् । श्रीवीरः समवासान्निगरोपान्तसीमनि ॥ ७॥ प्राहिणोत्प्रथम शिष्यमिन्द्रभूति गणेश्वरम् । पुरे राजगृहे स्वामी लोकानां लाभहेतवे ॥ ८ ॥ ज्ञात्वा तमागतमथोलसद्रोमाञ्चकञ्चकः । श्रीश्रेणिको नृपोऽप्यागाद्वन्दितुं सपरिच्छदः॥९॥पञ्चधाऽभिगमं कृत्वा दत्त्वा तिस्त्र: प्रदक्षिणाः। प्रणम्योचितभूदेशे देशेशः स निषण्णवान् ॥ १०॥ भगवान् गौतमस्वामी गर्जत्पर्जन्यमञ्जुना। ध्वनिना वक्तुमारेभे धर्म शर्मनिबन्धनम् ॥ ११ ॥ भो भन्या ! दशदृष्टान्तर्मानुष्यं प्राप्य दुर्लभं । यतितव्यं दानशीलतपोभावेषु सन्ततम् ॥१२॥ तत्रापि भावो 'नासीरवीरः सद्धर्मभूभृतः । तमन्तरेण यद्व्यर्थ दानादि तुषवापवत् ॥ १३॥स मनोविषयस्तञ्च निरालम्बं हि दुर्जयम् । नियन्त्रणार्थ तस्योक्तं सालम्बं ध्यानमुत्तमैः ॥१४॥ यद्यप्यालम्बनान्यत्र शास्त्रे सन्ति बहून्यपि । तथापि नवपदानां प्यानमुत्तममुच्यते ॥ १५ ॥ अर्हन्त: सिद्धा आचार्योपाध्यायाः सर्वसाधवः । दर्शनज्ञानचारित्रतपांसीति पदावली॥१६॥ दशाष्टदोषविकलान् केवलालोकनिर्मलान् । स्मराऽर्हतस्तथा सिद्धान् सिद्धाऽनन्तचतुष्टयान् ॥ १७ ॥ पञ्चाचारविचारज्ञान् १ अग्रसेनानी। hસા
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy