________________
श्रीजैन कथासंग्रहः
॥ श्रीचित्रसम्भूत ___ चरित्रम् ॥
॥३७॥
॥३८७ ॥ श्लोकमपूरयदपरं, मुनिर्मदरघट्टनिकटभूमिष्ठः ॥ प्रापमहं तु व्यसनं, मुधैव राज्यस्पृहाग्रहीलः । ॥३८८ ॥ अथ चन्दनरसपूरैः, संसिक्तों व्यक्तचेतनश्चक्री ॥ विज्ञातमुनिवरागम-वृत्तः स्नेहोल्लसच्चित्तः ॥३८९ ॥ दत्त्वारघट्टिकाय, द्युम्नं बहु पारितोषिकं सद्यः॥ सान्तःपुरपरिवारः, सोत्कण्ठोऽगात्तदुद्यानम् ॥३९० ॥ (युग्मम्) नत्वा च तं मुनिवरं, बाष्पजलालुतविलोचनश्चक्री ॥ निषसाद यथास्थानं, प्राच्यस्नेहाधिकस्नेहः ॥ ३९१ ॥ मुनिनाऽप्यारब्धा धर्मदेशना-दर्शिता भवनिर्गुणता, वर्णिता: कर्मबन्धहेतवः, श्वाघितो मोक्षमार्गः, ख्यापितः शिवसौख्यातिशयः। ततः संविना परिषत्, न भावितो ब्रह्मदत्तः। प्राह च-यथा स्वसङ्गमसुखेनाऽजहादिता वयं तथाउजहादयतु भवान् राज्यस्वीकरणेन, पश्चात् तपः सममेव करिष्याव:, एतदेव वा तपसः फलम् । मुनिराह-युक्तमिदं भवतामुपकारोद्यतानाम्, केवलं दुर्लभेयं मानुष्यावस्था, सततं यातुकमायुः, चञ्चलाश्रीः, अनवस्थिताधर्मबुद्धिः, विपाककटवो विषयाः, तदासक्तानां ध्रुवो नरकपातः, दुर्लभं पुनर्मोक्षबीजम्, विशेषतो विरतिरत्नम्, न तत्त्यागाद् दुस्तरनरकपातहेतुककतिपयदिन-भाविराज्याश्रयमाहादयति चित्तं विदुषाम् । ततः परित्यज्य कदाशयं, स्मर प्राग्भवानुभूतदुःखानि, पिब जिनवचनामृतरसम्, सञ्चर तदुक्तमार्गेण, सफलीकुरु मनुजजन्मेति। स प्राह-भगवन् ! उपनतसुखत्यागेन अदृष्टसुखवाञ्छा अज्ञानतालक्षणम्, तन्मैवमादिश, कुरु
॥३७॥