SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीचित्रसम्भूत चरित्रम् ॥ ॥३६॥ न: पुरिमतालाभ्यः ॥ प्रायोकं श्रुत्वाकमधीय शुचिश्लोकः ॥ ३७८ ॥ तथाहि- (दासा दसण्णे आसी, मिआ कालिंजरे नगे ॥ हंसा मयंगतीराए, सोवागा कासिभूमीए॥१॥ देवा य देवलोगंमि, आसि अम्हे महिहिआ) पूरयति यो द्वितीयं, श्लोकं तस्मै ददामि राज्यार्धम् ॥ इति चाघोषयदुवैः, पुरेऽखिले प्रतिदिनं चक्री॥३७९ ॥ राज्यार्थी चक्रे तं, श्लोकं सार्थ जनोऽखिलः कण्ठे ॥ पूरितवान्न तु कश्चिद्विपश्चिदपि पश्चिमश्लोकम् ॥ ३८० ॥ इतश्चजीवचित्रस्य महेभ्य-नन्दनः पुरिमतालसज्ञपुरे॥ जातिस्मरणाद् ज्ञात्वा, पूर्वभवानाददे दीक्षाम् ॥३८१॥ ग्रामादिषु विहरंस्तं, सदलं श्लोकं निशम्य लोकेभ्यः॥ प्राग्भवबान्धवबोधन-कृते स काम्पील्यनगरमगात् ॥३८२ ॥ तत्रारामे नाम्ना, मनोरमे संस्थितः स साधुस्तम्॥ साध श्लोकं श्रुत्वा-रघट्टिकमुखाददोऽवादीत् ॥ ३८३ ॥ (“इमा णो छडिआ जाई, अन्नमन्त्रेण जा विणा") इति तेनोक्तमधीत्या-रघट्टिकः श्लोकपश्चिमदलं तत् ॥ गत्वा सपदि नृपाग्रे, श्लोकयुगलमब्रवीत् सकलम् ॥ ३८४ ॥ स्नेहावेशान्मूछा, गतस्ततोऽपतदिला पतिरिलायाम् ॥ तच्च प्रेक्ष्यानभ्रा-ऽशनिपातमिवाक्षुभत् परिषत् ॥ ३८५॥ जातेदृशी दशा नः, प्रभोगिरास्येति परिजनः कोपात् ॥ तमथार-घट्टिकं मुहु-रताडयत् पार्णिघाताद्यैः॥३८६॥न मयायमपूरि ततो, मा मां ताडयत यूयमिति विलपन् । मुक्तः स कोऽस्य पूरक, इति पृष्टश्चाब्रवीदेवम् १. विद्वान् । २. भूकान्तः । ३. पृथ्व्याम् । ॥३६॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy