SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीचित्रसम्भूत ___चरित्रम्।। ॥३४॥ ब्रह्मसुतं, ज्ञात्वा वाणारसीपतिः कटकः ॥ अभ्येत्य सोत्सवं निज-गृहमनयद्वाराजमिव ॥ ३५७ ॥ निजतनयां कटकवी, चतुरङ्गं 'कटकमुत्कटं कटकः॥ प्रकटं 'विसङ्कटमदा-द्धनं च तस्मै मुदितचेताः ॥ ३५८ ॥ अथ तताऽऽहूता, धनुसचिव-कणेरुदत्त-चम्पेशाः ॥ भगदत्त-चन्द्रसिंहा-दयः परेप्याऽऽययुर्भूपाः ॥ ३५९ ॥ वरधनुमथ सेनान्यं, कृत्वा तैः परिवृतो नृपैर्नृपभूः ॥ प्रति काम्पील्यं प्रास्थित, दीर्घ दीर्घायने 'नेतुम् ॥ ३६० ॥ दीर्घप्रहितो र्घतो-ऽथागत्यैवं जगाद कटकादीन् ॥ दीर्घेण समं सख्यं, त्यक्तुं युक्तंन वः प्राच्यम्॥ ३६१॥ ते प्रोचुर्ब्रह्मयुताः, पञ्च वयस्याः पुरा भवाम वयम् ।। ब्रह्मणि तु गते स्वर्ग, मैत्री प्राग् दीर्घ एव जहौ ॥ ३६२ ॥ यद्ब्रह्मणोऽपि पुत्रे, राज्ये च त्रातुमर्पिते दीर्घः॥ चिरमकृत कर्म वैशस-मनुतिष्ठति नान्त्यजोऽपि हि तत् ! ॥ ३६३ ।। तद्गत्वा वद दीर्घ, यदेत्यसौ ब्रह्मसूस्ततो नश्य ।यदि वा भवाजिसज्जो, दूतं प्रोच्येति ते व्यसृजन् ।। ३६४ ।। काम्पील्यमथ प्राप्य, ब्रह्मसुतोऽनवरतप्रयाणैर्द्राग्॥ सैन्यै रुरोध परितो, नीरनीरधिरिव द्वीपम् ॥ ३६५ ।। चुलनी तदा विरक्ता, गत्वा पूर्णाप्रवर्तिनीपार्श्वे॥ प्रव्रज्य तपस्तीव्र, विधाय निर्वृत्तिमगात्क्रमतः ॥ ३६६ ॥ दीर्घोऽपि पुरान्निरगाद्रणार्थमवलम्ब्य साहसं सबलः॥ युद्धं ततः प्रववृते, परस्परं सैन्ययोरुभयोः॥३६७ ॥ भग्नमथ ब्रह्मभुवो, २. सैन्यम् । २. विशिष्टः सङ्कटो यस्मात् । ३. मारीनाखवा माटे इति भा.। ॥३४॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy