________________
श्रीजैन कथासंग्रहः
॥ श्रीचित्रसम्भूत
चरित्रम्॥
ዘዘ
.॥ स्तम्भे बबन्ध नीत्वा, कृतस्तुतिर्जयजयेति जनैः ॥ ३४६ ॥ तत्रागतोऽथ भूपस्तं तत्तेजश्च वीक्ष्य
विस्मितवान् ॥ कोऽयं छन्नो रविरुत, हरिः शशी वेति चापृच्छत् ? ॥ ३४७ ॥ तद्वत्तेऽथ पितृव्येन, रत्नवत्या निवेदिते नृपतिः॥ सोत्सवमष्टौ स्वसुता, दिश्रिय इव दत्तवांस्तस्मै ॥ ३४८ ॥ ता: परिणीय मुहूर्ते, शुभेऽवसत्तत्र भूपभूः ससुखम्॥तं चान्येधुर्जरत', समेत्य काचिजगादेवम्॥३४९॥ वैश्रवणाख्यो वैश्रवण-देश्यसम्पत्पुरत्र वसतीभ्यः ॥ वार्द्धः श्रीरिव तस्य, श्रीमत्याह्वास्ति वरतनया॥ ३५०॥ सा च यदा मत्तेभा-दमोचि भवता तदा समीक्ष्य त्वाम् ॥ चित्रलिखितेव द्दष-दुल्लिखितेवाभूत्त्वदेकमनाः ॥३५॥ कथमपि च परिजनेनाऽऽनीता सानि न भोजनं कुरुते॥न स्वपिति न च क्रीडति, पश्यति च त्वन्मयं विश्वम् ॥ ३५२॥ पृष्टाऽथ मया धात्र्या, सा प्रोचे येन रक्षिताऽस्मि गजात् ॥ स हि नरमणिर्न ३श्मणो, यदि मे स्यात्तदा मरणम् ॥ ३५३ ॥ तद् ज्ञापितोऽथ तस्या-स्तातो मां प्राहिणोत्तव समीपे॥ तदरक्षि यथा व्याला-द्रक्ष तथा मन्मथादपि ताम् ॥ ३५४ ॥ तामपि ततः कुमारः, परिणिन्ये सोत्सवं शुभे दिवसे ॥ वरधनुरपि नन्दाजह्वा-मुदुवाह सुबुद्धिसचिवसुताम् ॥ ३५५ ॥ अथ तौ तत्र वसन्ती, प्रथितौ पृथ्व्यां गुणैरजायेताम् ॥ वाणारी प्रति ततः, सोत्साही प्रास्थिषातां च ॥ ३५६ ॥ आयान्तं १. वृद्धा। २. भर्ता । ३. मदनात् ।
1
॥३३॥