________________
श्रीजैन कथासंग्रहः
॥ श्रीचित्रसम्भूत
चरित्रम्॥
॥३॥
.. तावत्सुखं खलु युवाभ्याम् ॥ यावन्मे राज्याप्तिः, स्यादित्युक्त्वा च ते व्यसृजत् ॥ ३२४॥ ओमित्युक्त्वा
गतयो-स्तयोस्तिरोभूद्वहादि तत्सकलम् ॥ रत्नवतीमन्वेष्टुं, ततो ययावाश्रमे नृपभूः ।। ३२४ ॥ तत्र च तां सोऽपश्यन्, नरमेकमपृच्छदिति शुभाकारम् ॥ दृष्टा कापीह 'वशा, त्वया गतदिनेऽद्य वा प्रवरा ॥ ३२६॥ तेन च किं रत्नवती-कान्तस्त्वमसीति सादरं पृष्टः ?॥ ओमित्यवदन्नृपभू-स्ततः स मुदितः पुनः प्रोचे ॥३२७ ॥ सा रुदती ह्यो दृष्टा, का त्वं किं रोदिषीति च मयोक्ता॥ किञ्चिदवोचत याव-तावद् ज्ञाता स्वदौहित्री॥ ३२८ ॥ गत्वा च पितृव्याया-ऽज्ञपयं तस्यास्ततः स मुदितस्ताम् ॥ स्वगृहेऽनयद्भवन्तं, त्वविन्दतान्वेषयन्नपि नो ॥ ३२९ ॥ अद्यापि शुभमभूध-म्मिलितस्त्वमिति ब्रुवन्नृपसुतं सः ॥ निन्ये धनावहगृहे, तं दृष्ट्वा सोऽपि बहु मुमुदे ॥ ३३०॥ सोत्सवमथ रत्नवी, व्यवाहयनृपभूवा सह श्रेष्ठी॥ मृतकार्यमन्यदा वरधनोरुपाक्रस्त नृपतिसुतः ॥३३१॥ लुब्धत्वावेशवशाद-द्विजेषु कुर्वत्सु भोजनमतृप्त्या ॥ तत्रागत्यावादी-दूरधनुरिति विप्रवेषधरः॥३३२ ॥ यदि मे दत्तादनमिह', साक्षाद्वरधनोर्भवति नूनम् ॥ तच्चाकर्ण्य कुमार-स्ससम्भ्रममगादहिर्गेहात् ॥ ३३३॥ तं च प्रविलोक्य दृढं, परिरभ्यानऽऽन्दबाष्पजलपूरैः ॥स्नपयन्निव गेहान्त-नीत्वा पप्रच्छ तद्वार्ताम् ॥ ३३४ ॥ सोऽवादीत्त्वयि सुप्ते, दुमान्तरस्थेन तस्करण १. खी। २. स्वपुत्रीपुत्री। ३. भोजनम् ।
॥३१॥