________________
श्रीजैन
कथासंग्रहः
॥ श्रीचित्रसम्भूत
चरित्रम् ॥
॥३०॥
वताऽस्माभिः ॥ तद्विषयसुखेनैव-विधेन पर्याप्तमस्माकम् ॥ ३१३ ॥ प्रावर्तावहि सोदर-रक्षायै तत्प्रभृत्यनिशमावाम् ॥ स त्वन्यदक्षताटन, पुष्पवर्ती पुष्पचूलसुताम् ॥ ३१४ ॥ तदूपापहृतमना-स्ततः स द्रुतमपाहरजडधीः ॥ तत्तेजोऽसहमानो, विद्यां साधयितुमगमञ्च ॥ ३१५ ॥ यदभूत्ततः परं त-यूयं स्वयमेव वित्थ सकलमपि ॥ अथ चाऽख्यत्पुष्पवती, तदाऽवयोः सोदरविनाशम् ॥ ३१६ ॥ शोकं च व्यपनिन्ये-ऽस्माकं धर्मानुगैर्मधुरवाक्यैः ॥ शङ्करविद्याशक्त्या, ज्ञात्वाऽस्मद्वृत्तमिति च जगौ ॥ ३१७ ॥ स्मरतं युवां गुरुगिरा-मिहागतं ब्रह्मदत्तमथ वृणुतम् ॥ न हि जातुचिद्विघटते, ज्ञानिवचो ग्रावरेखेव ॥ ३१८ ॥ तत्स्वीकृतमावाभ्यां, राभस्यवशेन सा तु सितकेतुम् ॥ प्राचीचलत्ततस्त्वं, हित्वा वामन्यतो गतवान् ॥३१९ ॥ नागास्त्वं तत्र यदा, स्वामन्वेष्टुं ततो वनानी ताम् ॥ चिरमावां सम्भ्रान्ते, प्रान्ते न तु ललित ! मिलितस्त्वम् ॥ ३२०॥ तदनु दनुजमनुजामर-जेता नेता व नौ समेताऽसौ ?॥ इति पृष्टाया विद्या-देव्या वचनादिहैवावाम् ॥ ३२१ ॥ अस्मत्पुण्याऽऽकृष्टो, दृष्टस्त्वं चेह तद्विभो ! त्वरितम् ॥ पुष्पवतीवत्पाणी-कृत्य-' कृतार्थय 'जनुरिदं नौ ॥ ३२२ ॥ गान्धर्वविवाहेनो-दुवाह ते अपि ततो नरेन्द्रसुतः ॥ रममाणः सह ताभ्यां, निमेषमिव तां निशां व्यनयत् ॥ ३२३ ॥ स्थातव्यं पुष्पवती-पात्रे १. दृषदेखा इव। २. भार्या कृत्वा । ३. जन्म।
॥३०॥