________________
श्रीजैन कथासंग्रहः
॥ श्रीचित्रसम्भूत
चरित्रम्॥
॥२८॥
नरैः कारयिष्यामः ॥ २९१ ॥ परमिह गहने स्थातुं, नो चिरमुचितं यमोपवनकल्पे ॥ इति तद्रिरा स तुरगा-त्रुदन्नगादग्रतो व्यग्रः॥२९२॥ उल्लङ्झ्यानुल्लच्या-मपि तामटवीं ययौ समगधानाम्॥ सीमग्राम भवतति-मतीत्य मोक्षं मुमुक्षुरिव ॥२९३ ॥ तत्र ग्रामसभास्थो, ग्रामपतिः प्रेक्ष्य तं रुचिररूपम् ॥ पुरुषोत्तमोऽयमिति हृदि, निरणैषीगृहमनैषीच ॥ २९४ ॥ किं भृशमुद्विग्न इवा-सीत्यथ तेनोदितोऽ वदनृपभूः॥ चौरैः सह कुर्वन् रणमगाद्वयस्यो' मम क्वापि ॥ २९५ ॥ तस्य. प्रवृत्तिमधुना, नेष्ये तन्मा कृथास्त्वमुद्वेगम् ॥ तत इत्युक्त्वा ग्रामा-धिपोऽटवीं तामवजगाहे ॥ २९६ ।। आगत्य चैवमवद-द्वनेत्र मनुजो न कोऽप्यदर्शि मया। किन्तु शरोऽसौ प्राप्तः, प्रहारपतितो रुधिरलिप्तः ॥ २९७ ॥ श्रुत्वेति हतो वरधनु-रवश्यमिति सोऽभवद्धृशं व्यग्रः ॥ रविरप्यस्ताद्रिमगा-त्तहुःखं द्रष्टुमसह इव ॥ २९८ ॥ 'यामे तुर्येऽथ निशो, ग्रामे न्यपतन् मलिम्लुचो बहवः ॥ तांस्तु बभञ्ज कुमार-स्ततोऽस्तुवंस्तं जनास्तुष्टाः । २९९ ॥ पृष्ट्वाऽथ ग्रामपति, चलितः सोऽगात्क्रमेण राजगृहम् ॥ रत्नवतीं च व्यमुच-तद्वाह्ये तापसावसथे। ३००। प्रविशन् स्वयं च नगरं, सदनगवाक्षस्थिते युवत्यौ द्वे ॥ नृपभूर्ददर्श ते अपि, सविलासमवोचतामिति तम् ॥ ३०१ ॥ सस्नेहमपि जनं य-त्यक्त्वागास्त्वं तदा तदुचितं किम् ?॥ १. मित्रम् । २. प्रहरे चतुर्थे । ३. तापसाश्रमे।
રટા