SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥२७॥ . जगौ नृपभूः ॥ २८० ॥ साऽऽख्यन्मगधपुरे मम, वसति पितृव्यो धनावहः श्रेष्ठी ॥ स हि कर्त्ता प्रतिपत्तिं, प्रचुरं तत्तत्र गम्यमितः ॥ २८१ ॥ इति रत्नवतीवचनात्सुहृदा' सूतेन वाहयन् वाहान ।। प्रापाटवीं कुमारः, कौशाम्बीविषयमुल्लङ्घ्य ।। २८२ ।। तत्र सुकण्टक- कण्टक-सञ्ज्ञौ चौराधिपौ प्रबलसैन्यी ॥ तं रुरुधतुरपहर्तुं रथादिं विशिखान्' प्रवर्षन्तौ ॥ २८३ ॥ चापमुपादाय ततः प्रहरन्नृपनन्दनः शरप्रकरैः ।। तद्दस्युबलमनाशय-दहर्पतिस्तम' इवांशुभरैः ॥ २८४ ॥ तमथोचे सचिवसुतः, श्रान्तोऽसि रणेन तद्रथेनैव ॥ स्वपिहि क्षणं ततः सो ऽप्यशेत सह रत्नवत्या द्राग् ।। २८५ ।। प्रातश्चैकां तटिनीं प्राप्याऽतिष्ठन् हयाः स्वयं श्रान्ताः ॥ तत्र च जागरितो नाऽपश्यत्सुहृदं रथे नृपभूः ॥ २८६ ॥ भावी जलाय गत इति, मुहुर्मुहुरशब्दयत्कुमारस्तम् । न त्वाप प्रतिवचनं, सद्वचनं नीचवदन इव ॥ २८७ ॥ व्याकुलचेताः स ततो, बाष्पजलाविलदृशा दिशः पश्यन् । 'रक्ताभ्यक्तमपश्यच्च, स्यन्दनवदनं नरेंन्द्रसुतः ॥ २८८ ॥ हाऽहं हत इति जल्पं - स्ततोऽपतन्मूर्च्छितो रथोत्सङ्गे ॥ अधिगतसञ्ज्ञस्तु भृशं व्यलपत्कुत्राऽसि ? मित्रेति ।। २८९ ।। तमथाख्यद्रत्नवती, प्रभो! सखा ज्ञायते न हि मृतस्ते । तत्तस्येदममङ्गल-मुचितं वाचाऽपि नो कर्तुम् ॥ २९० ॥ नूनमपृष्ट्वाऽपि त्वां त्वत्कार्यायैव स हि गतो भावी ॥ स्थाने गतास्तु शुद्धिं तस्य १ सारथिना । २ अश्वान् । ३ शरान् । ४ दिनकरः । ५ किरणसमुहैः । ६ रुधिरलिप्तम् । ७ रथाग्रभागम् । ॥ श्रीचित्रसम्भूत चरित्रम् ॥ 112011
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy