SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीचित्रसम्भूत चरित्रम् ।। ॥२६॥ ॥२६९ ॥ अत्रावामन्वेष्टुं, प्रहिता दीपेण सन्ति निजपुरुषाः ॥ तद्वचनादत्रत्यो नृपोऽपि तदुपक्रमं कुरुते ॥ २७० ॥ तत्किं कर्तव्यमिति, ध्यायन्तौ सागरोऽवनिगृहे' तौ ॥ क्षिप्त्वा जुगोप निधिवद्रविरप्यपराम्बुधावविशत् ।। २७१ ॥ निशि निर्गममिच्छन्ती, तौ रथमारोप्य कमपि पन्थानम् ॥ नीत्वा । सागरदत्तो, ववले बाष्पायिताक्षियुगः ॥ २७२ ॥ तावथ पुरः प्रयान्तौ, शस्त्राब्यरथस्थितां वने वनिताम्' ॥ ददृशतुरियती वेला, किं वां लग्नेति जल्पन्तीम् ॥ २७३ ॥ कावावां ? वेत्सि च कथ-मिति पृष्टा नृपभुवाथ साऽवादीत् ॥ धनसञ्चयाधिनाथः, श्रेष्ठ्यासीदिह धनप्रवरः ॥ २७४ ॥ अष्टानां तनयानामुपर्यहं तस्य नन्दनाऽभूवम् ।। प्राप्ता च यौवनं नाऽपश्यं कञ्चिदरं प्रवरम् ॥ २७५ ॥ स्थितमस्मिन्नुद्याने, तदर्थमाराधयं ततो यक्षम् । सोऽपि हि भक्त्या तुष्टः, प्रत्यक्षीभूय मामवदत् ।। २७६ ॥ श्रीब्रह्मदत्तनामा, चक्री वत्से! तव प्रियो भावी॥ स्वामिन् ! स कथं ज्ञेयो, मयेति पृष्टः स पुनरुचे॥२७७॥ यः सागरबुद्धिलयो-रायास्यति कुक्कुटाहवे- ससखा ॥ विश्वमनोहररूपः, श्रीवत्सी स त्वया ज्ञेयः ।। २७८ ॥ स च मच्चैत्यसमीपे, प्रथमं ते मेलिताऽन्यतो गच्छन् ॥ इति यक्षगिरा स्वामिन् !, जानामि त्वामहं नियतम् ॥ २७९॥ तन्मे मन इव रथममु-मारोह विभो ! द्रुतं तयेत्युदितः ॥ रथमारुह्य समित्रः क्व ? गम्यमिति तो भूमिगृहे । २ अनुक्लिन्ननेत्रयुग्मः । ३ नारीम्। ४ पनसञ्चयाधिपतिः । ५ आहवः रणः । ॥२६॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy