SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥२५॥ तदहं ते वच्मि मातरिदम् ।। २५८ ॥ भ्रातुर्बुद्धिलनाम्नः, सागरनाम्नश्च' ताम्रचूडरणे ॥ इयमुपवनं गतैकं, कुमारमुत्तमतममपश्यत् ।। २५९ ॥ ईदृश्यभूत्ततोऽसौ तयेति कथिते स्मरव्यथाक्रान्ताम् ॥ श् तामवोचं, सद्भावं ब्रूहि मे वत्से ! ॥ २६० ॥ अथ कथमपि साऽप्यूचे, मातर्यस्ते प्रियङ्गुलतयोक्तः ॥ स ब्रह्मदत्तनामा, पतिर्न चेन्मे तदा मरणम् ।। २६१ ।। घटयिष्ये तव कामित मित्यधृतिं मा कृथा वृथा वत्से !॥ तत इति मयोदिता सा, किञ्चित्स्वस्थेति पुनरूचे ॥ २६२ ॥ भाव्यखिलमीहितं मे, मातर्देव्या इव प्रसादात्ते ॥ तस्मै ज्ञापयितुमद-स्तदपि क्रियतामुपायोऽयम् ॥ २६३ ॥ क्षिप्त्वा करण्डमध्ये, हारममुं 'युतमनेन लेखेन । प्रेषय तस्मै क्षिप्रं व्यपदेशाऽर्द्ध बुद्धिलभ्रातुः ॥ २६४ ॥ तन्नाम्ना दत्तममुं, लास्यति सद्योऽन्यथा तु लाति न वा ॥ लक्षाद्धं ह्युक्तमभूत्तत्सुहृदो बुद्धिलेन तदा ।। २६५ ॥ प्रोच्येति तया दत्ती, हारो लेखश्च दासहस्तेन ।। प्रहितौ मया गतेऽहनि, तत्प्रतिलेखोऽर्प्यतामधुना ॥ २६६ ॥ उक्त्वेति तस्थुषी सा, त्वत्प्रतिलेखे मयार्पिते तु ययौ । आर्या तत्र च लेखे, लिखितासौ वर्त्तते स्वामिन्! ॥ २६७ ॥ उचितत्वाद्वरधनुना, सुहृदोऽक्तो ब्रह्मदत्तनामापि ।। स्त्रीरत्नं रत्नवती - मिच्छति गोविन्द इव कमलाम् ॥ २६८ ॥ श्रुत्वेति मित्रवचनं, तां द्रष्टुं भूपभूरभूदुत्कः ' ॥ अन्येद्युराकुलतया, वरधनुरागत्य तं प्रोचे १ चरणायुधयुद्धे । २ कामदुःखपीडिताम् । ३ युक्तम् । ४ विष्णुः । ५ उत्कण्ठितः । ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥२५॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy