________________
श्रीजैन कथासंग्रहः
॥श्रीचित्रसम्भूत
चरित्रम् ॥
॥२४॥
त्वत्समनाम्नस्तवाथवा भवी ॥ तेनेत्युदितो गाढो-त्सुकोऽभवद्भपभूर्जातुम् ।। २४८ ॥ लेखं तमथो वरधनु-रुन्मुद्रयति स्म नलिनमिव' तरणिः॥ आर्यामेकां लिखितां, तत्र ददर्शालिपङिक्तमिव ॥ २४९॥ सा चेयं- यद्यपि जनोऽयतेऽसौ, जनेन संयोगजनितयत्नेन ॥ त्वामेव हि रत्नवती, तथाऽपि मानयितुमभिलषति ॥ २५० ॥ भावार्थोऽस्या ज्ञेयः, कथमित्यथ वरधमौ विचिन्तयति ॥ आगाद्वितीयदिवसे, तदन्तिके तापसी वत्सा ॥ २५१ ॥ आशीर्वादं दत्त्वा, क्षिप्त्वा कुसुमाक्षतानि शिरसि तयोः॥ नीत्वान्यतो वरधनु, निगद्य किञ्चिच्च साऽपि ययौ॥२५२॥ आगतमथ सुहृदं नृप-पुत्रः प्रोचेऽनया किमुक्तमिति?॥सोऽवददयाचदेषा, प्रतिलेखं प्राच्यलेखस्य ॥ २५३ ॥ श्रीब्रह्मदत्तनामाङ्कितो हासौ लेख इति वद त्वं मां ॥ को ब्रह्मदत्त इति ? सा, मयानुयुक्तेति पुनरवदत् ।। २५४ ॥ अत्रास्ति श्रेष्ठिसुता, रत्नवती नाम सुन्दरीरत्नम् ॥ आबाल्यादपि सा म-य्यनुरक्ता प्राप तारुण्यम् ॥ २५५ ॥ तामन्यदा विमनसं, दृष्ट्वा गत्वा तदन्तिकमवोचम्॥का ते चिन्तेति? ततो, मामिति तत्परिजनोऽवादीत् ॥२५६ ॥ अस्या हि दौर्मनस्ये, भूयांसि दिनानि जज्ञिरे मातः!॥ अथ पृष्टा सा पुनरपि, जगौन किमपि हिया यावत् ।। २५७॥ अवदत्तावत्तस्याः, प्रियॉलतिकारहया प्रियवयस्या॥न हि वक्ति लजयाऽसौ, १कमलमिव अर्कः।
॥२४॥