SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥२३॥ वरधनुरसम-जसाऽसहः सागरमदोऽवक् ॥ २३७ ॥ जात्योऽपि कुक्कुटोऽसौ, भग्नस्तव सागरामुनापि - कथम् ? ॥ तद्यदि वदसि तदाहं, विलोकयाम्येनमादाय ॥ २३८ ॥ सोऽथ जगौ भ्रातस्त्वं, प्रसद्य मि सद्य एव पश्येदम् ॥ मानापगमो व्यथयति, मामन्तर्न तु धनापगमः ।। २३९ ॥ वरधनुरथ तं पश्यन्, ददर्श तच्चरणयोरयः सूचीः ॥ तच्च ज्ञात्वा तं द्रुत मुपेत्य बुद्धिल इति प्रोचे ॥ २४० ॥ यदि मे छद्य न वक्ष्यसिं, लक्षार्द्ध तव तदा प्रदास्येऽहम् ।। तेनेत्युक्तो वरधनु- रूचे तद्रहसि भूपभुवे ॥ २४१ ।। सूचीः कृष्ट्वा स ततस्तं सागरकुक्कुटेन योजितवान् ॥ अपसूचिकं च बुद्धिल-कुक्कुटमपरो द्रुतमजैषीत् ।। २४२ ॥ तुष्टोऽथ सागरस्ता-वारोप्य रथं स्वमन्दिरमनैषीत् ॥ स्वगृह इव तगृहे तावपि तस्थतुरुचितलीलाभिः ॥ २४३ ॥ बुद्धिलदासस्तत्रागतोऽन्यदा वरधनुं रहसिनीत्वा । प्रोचे यत्तव कथितं लक्षार्द्ध बुद्धिलेन तदा ।। २४४ ।। तत्स्थाने तेनासौ, हारः प्रहितोऽस्ति चतुरयुतमूल्यः ' ॥ इत्थं प्रोच्य करण्डं, दत्त्वा च यथागतः सोऽगात् ।। २४५ ।। वरधनुरपि गत्वा तन्निवेद्य निखिलं करण्डमुद्घाट्य ॥ मौक्तिकरुचिजितसितरुचि' - मदीदृशन्नृपभुवे हारम् ।। २४६ ।। हारे हारिणि तत्राव- लम्बितं लेखमात्मनामाङ्कम् ॥ दृष्ट्वा नृपभूः सुहृदं, कस्यासौ लेख इत्यूचे ॥ २४७ ॥ को वेत्ति कस्यचिदयं, १ चत्वारिंशत् सहस्रमूल्यः । २ सितरुचिः चन्द्रः । 500-1000 ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥२३॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy