SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥२॥ नृपतेश्चेत्युदितास्ते, मया यथागतमगुर्भीताः ॥ २२६ ॥ आरक्षकं चावोचं, साहाय्यं चेत्करोषि तदमुष्या: ॥ 'कुणपेन लक्षणवता, मन्त्रमहं साधयाम्येकम् ॥ २२७ ॥ तत्प्रतिपन्नेन समं, तेन समादाय सायमहमम्बाम् ॥ गत्वा दूरं पितृवनं, गुरुमण्डलमालिखं दम्भात् ।। २२८ ॥ शून्यं विधिं च कञ्चिद्विधाय दातुं बलिं पुरसुरीणाम् ॥ प्रेष्यारक्षं गुटिका-मार्पयमपरामहं मातुः॥ २२९ ।। अथ तत्क्षणमुत्तस्थावपगतनिद्रेव लब्धसज्ञा सा ॥ आवेद्य स्वं तामथ, निवार्य रुदतीं ततोऽचलयम् ॥ २३० ॥ मुक्त्वा कच्छग्रामे, तातसुहृद्देवशर्मवेश्मनि ताम् ॥ त्वामन्वेष्टुं भ्राम्य-निहागमं भाग्ययोगेन ॥ २३१ ॥ नाथ ! त्वयानुभूतं, सुखदुःखं यत्ततः परं वद तत् ॥ तेनेत्युक्तोऽवादी-त्स्वं वृत्तं ब्रह्मदत्तोऽपि ॥ २३२ ॥ अथ कोऽप्यागत्योचे, ताविति भो ! दीर्घनृपभटा ग्रामे ॥ युष्मत्समरूपाङ्कित- पटयुगदर्शनपरा ब्रुवते ॥२३३॥ ईद्दशरूपौ पुरुषौ, दृष्टौ क्वापीति तन्निशम्याहम् ॥ कथयामि वामथ युवां, यथोचितं तनुतामात्महितम् ॥२३४ ॥प्रोच्येति गते तस्मि-नश्यन्तौ तावरण्यमध्येन॥ क्रमयोगात्कौशाम्बी-पुर्या उपवनमुपागाताम् ॥ २३५ ॥ तत्र पणीकृतलक्षं, 'चरणायुधरणमपश्यतां धनिनोः बुद्धिल-सागरदत्ता- भिधयोः शस्त्रायिताङ्घिनखम् ॥ २३६ ॥ तत्र च बुद्धिलचरणा-युधेन जात्येऽपि कुक्कुटेऽन्यस्मिन् ॥ भने . १शबेन । २ ताम्रचूडयुद्धम्। ॥२२॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy