________________
श्रीजैन कथासंग्रहः
॥२१॥
भागाह्वोऽस्मि तव पितुर्मित्रम् ॥ तद्ब्रूहि वरधनो ! त्वं, कुत्राऽस्ति ब्रह्मदत्त इति ? ॥ २१५ ॥ विश्वस्तस्य विश्व' वा 'सूनृतामहमवोचम् ॥ दुःखाविष्टः स ततः पाश्चात्यं' वृत्तमित्यूचे ॥ २१६ ॥ दग्धे तदा जतुगृहे, दीर्घः प्रातर्ददर्श शबमेकम् । तां सत्रगां सुरङ्गां, तुरगपदानि च पुरस्तस्याः ॥ २१७ ॥
युवां धनुधिया, ज्ञात्वा कुपितस्ततो नृपस्तस्मै ॥ प्रत्याशमश्ववारान् युष्मन्निग्रहकृते प्रैषीत् ।। २१८ ।। नष्टो धनुरिति जनन, तवाक्षिपत् श्वपचपाटके दीर्घः ॥ सा नरकावास इवा नुभवति तत्र व्यथाः प्रचुराः ॥ २१९ ॥ तेनोदन्तेनोच्चै - र्दुःखोपरिजायमानदुःखार्त्तः ॥ उद्धर्तुं व्यसनाब्धे-र्जननीं काम्पील्यनगरमगाम् ॥ २२० ॥ तत्र च कपालिरूपं कृत्वाटं श्वपचपाटके कपटात् ॥ तस्मिन् भ्रमणनिदानं, लोकैः पृष्टोऽब्रवं चैवम् ॥ २२९ ॥ मातङ्गीविद्यायाः, साधनविधिरयमिति भ्रमाम्यत्र । तत्रैवमटन् मैत्रीमकार्षमारक्षकेण समम् ॥ २२२ ॥ कुरुतेऽभिवादनमसी, कौण्डीन्यमहाव्रती सुतसुहृत्ते । इत्यन्यदा च जननीमवोचमारक्षकमुखेन ।। २२३ ॥ गुटिकायुतमपरदिने, मातुरदां मातु लिङ्गमभिगम्य । तद्भक्षणेण साऽजनि निश्चेष्टा काष्ठमूर्त्तिरिव ॥ २२४ ॥ आरक्षकोऽथ राज्ञे, गत्वोचे तां मृतां ततो नृपतिः ॥ तां संस्कर्तुं प्रैषी-टू भृत्यानथ तेऽपि तत्रागुः ॥ २२५ ॥ सम्प्रति संस्कारेऽस्याः, कृते महान् भाव्युपद्रवो भवताम् ॥
१ सर्वाम् । २ सत्याम् । ३ पश्चाद्भवम् । ४ बीजपुरम् ।
॥ श्रीचित्रसम्भूत चरित्रम् ॥
॥२१॥