________________
श्रीजैन कथासंग्रहः
॥श्रीचित्रसम्भूत
चरित्रम्॥
॥२०॥
पश्याम्यखिलान् पान्थांस्ततोन्वहमिह स्थिता सरस्तीरे ॥ त्वां च प्रापं सुरतरु-मिव दुष्प्रापं प्रचुरपुण्यैः । ॥२०४॥ इति किञ्चिदनापृच्छ्या-ऽर्पितास्म्यहं तुभ्यमीश! तातेन ॥ उदितस्तयेति मुदित-श्चिक्रीड तया समं नृपभूः ॥ २०५ ॥ पल्लीशः सोऽन्येद्यु-मिं हन्तुं जगाम सैन्ययुतः ॥ तेन सह भूपभूरपि, गत्वाऽब्जसरस्तटे तस्थौ । २०६ ॥ ग्रामेऽथ लुण्ट्यमाने, पपात वरधनुरुपेत्य तत्क्रमयोः ॥ आलम्ब्य च तत्कण्ठं, विमुक्तकण्ठं रुरोदोच्चैः ॥ २०७ ॥ ब्रह्मात्मजेन वचनै-रमृतद्रवसोदरैरथाश्वास्य ॥ पृष्टो वरधनुरुचे, स्ववृत्तमिति गद्गदैर्वचनैः ॥२०८॥ मुक्त्वा तदा वटाध-स्त्वामम्भोथै गतोऽहमब्जसरः॥ किञ्चिदपश्यं तजल-मब्जदलपुटेन जगृहे च ॥२०९॥ वलितश्च दीर्घपुरुषै-रुदायुधैर्हतहतेति जल्पद्धिः ॥ सन्नद्धरुद्धोऽहं, हंसः काकैरिव कठोरैः ॥ २१०॥ क्व ब्रह्मदत्त इति तैः, पृष्टश्चाब्रवमहं न वेद्यीति॥ गाढमथ ताडितस्तै-रवदं व्याप्रेण जग्ध इति ॥२११॥ दर्शयतं देशमथे-त्युक्तो भ्राम्यन्नितस्ततो दम्भात् ॥ त्वद्दर्शनपथमेत्य, व्यधांपलायनकृते सज्ञाम्॥ २१२॥स्वमुखे तु परिव्राजक-दत्तांगुटिकां ततोऽक्षिपं क्षिप्रम्॥ तस्याः प्रभावतो गत-चेष्टस्त्यक्तोऽस्मि मृत इति तैः ॥२१३॥ तेषु च गतेषु दूरं, कृष्ट्वा गुटिकां मुखात्त्वदर्थमटन् । ग्रामं कमपि गतोऽहं, कञ्चिदपश्यं परिवाजम् ।। २१४ ।। सोऽप्यवददवनतं मां, १चरणयोः । २ जलार्थम् । कमलसरोवरम्। ."
॥२०॥