________________
श्रीजैन कथासंग्रहः
॥ श्रीचित्रसम्भूत
चरित्रम् ॥
॥१८॥
पस्करमादाय सकलमपि ॥ १८२ ॥ खण्डाविशाखिकाऽऽख्ये, खेचरकन्ये मुधा समायातः॥ कार्य ध्यातमितरथा, दैवेन ह्यन्यथा घटितम् ! ॥ १८३ ॥ (युग्मम्) तत्तावदपसर त्वं, यावत्सकीयं तव गुणान् प्रगुणान् ॥ जानाम्यनयोर्भावं, त्वयि रागविरागयोः स्वामिन् ! ॥१८४ ॥ रागे चलयिष्यामि, ध्वजमरुणं वीक्ष्य तं त्वमागच्छेः ॥ रागाभावे तु सितं, तञ्च प्रेक्ष्यान्यतो गच्छेः ॥१८५॥ अभयोऽपि ततो नृपभू-स्तस्थौ गत्वान्यतस्तदनुवृत्त्या ।। अथ पुष्पवती श्वेतं, चलयामास क्षणात् केतुम् ॥१८६॥ तं च प्रेक्ष्य कुमारः, शनैः शनैः प्रस्थितोऽन्यतो गन्तुम् ॥ उल्लङ्य वनं दुर्गम-मेकमविन्दत सरः सायम् ॥१८७ ।। तत्र स्नात्वा सलिलं, निपीय पीयूषसरसमथ सरसः ॥ निर्गत्य ब्रह्मसुत-स्तटमुत्तरपश्चिमं भेजे ॥ १८८ ॥ तत्र च कन्यां काशि-त्समीक्ष्य जलदेवतामिवाध्यक्षाम् । सफलं जन्म ममाभू-दोति नृपाङ्गजो दथ्यौ ॥ १८९॥ तद्दर्शनामृतरसं, पायं पायं व्यपायविकलं सः ॥ ग्रीष्मे पयः पिबन्म:पान्थ इव प्राप नो तृप्तिम् ॥ १९०॥ साऽपि च तं पश्यन्ती, कटाक्षविक्षेपदक्षचक्षुभ्या॑म् ॥ दास्या समंच किञ्चि-द्वदन्त्यगादन्यतः कन्या ॥ १९१ ॥ तन्मार्गदत्तदृष्टिः, प्रास्थित यावत्ततोऽन्यतो नृपभूः ॥ सा दास्याऽऽगात्तावत्, पटयुगताम्बूलकुसुमधरा ॥१९२ ॥ तच्च प्रदाय तस्मै, जगौ त्वया या सरस्तटे दृष्टा १ विवाहसामग्रीम् । २ प्वजम् । ३ प्रत्यक्षाम् । ४ विघ्नरहितम् ५ मरुदेशाध्यन्यः।।
॥१८॥