________________
श्रीजैन कथासंग्रहः
॥ श्रीचित्रसम्भूत
चरित्रम् ॥
॥१७॥
माणामारामदीर्घिकापुलिने ॥ हुत्वाऽन्येधुर्विद्या-धराधमो मामिहानैवीत् ! ॥ १७२ ॥ कालमियन्तं बन्धुजनविरहदावाग्नितप्तगात्राऽहम् ॥ त्वदृष्ट्याऽमृतवृष्ट्या, क्लिन्ना निर्वापिताऽद्य विभो!॥१७३ ॥ व गतोऽस्ति ? स मे रिपुरिति, पृष्टा सा नृपसुतेन पुनरवदत् ॥ तेन किल पठितसिद्धा-ऽर्पितास्ति मे शारी विद्या॥१७४॥ सा हिस्मृता विधत्ते, परिच्छदीभूय कृत्यमखिलमपि॥ विनयत्युपद्रवं मे, पृष्टा चाख्याति तद्वार्ताम् ॥१७५॥ तां पृष्देदं वच्मी-त्युक्त्वा स्मृत्वा च तां पुनः साऽऽख्यत्॥ येनाऽहुताऽस्मि नाट्यो-न्मत्तः स हि खेचरो नाम्ना॥ १७६ ॥ मम तेजोऽसहमानो, मुक्त्वा विद्याकृतेऽत्र धामनि माम्॥ विद्यां साधयितुमगा-वंशकुडले स्वयं गहने ॥१७७॥ तस्योपदी धूमं, पिबतो विद्याऽद्य सेत्स्यति स्वामिन् !॥ विद्याबलोर्जितबलः, परिणेष्यति मांततः स कुधीः॥१७८॥ अथ तद्वधव्यतिकरे, तेनोक्ते साधु कृतमिति ब्रुवती॥ मुमुदे भृशं कनी सा, प्रियलाभादप्रियोच्छेदात् ॥ १७९ ॥ अथ तामुदुह्य' कन्यां, गान्धर्व विवाहरचनया नृपभूः॥रमयन् विविधैः सुरतै-स्तां क्षणदां क्षणमिवाक्षपयत् ॥१८॥ प्रातश्च खेचरीणां, ध्वनिमवनिध वाङ्गजोऽम्बरे श्रुत्वा ॥ 'वियति भवति कस्यायं, ध्वनिरिति पप्रच्छ पुष्पवतीम् ? ॥१८१॥ सा प्रोचे प्रिय ! नाट्यो-न्मत्ताइत्वद्रिपोरिमे जामी॥ भ्रातुः कृते विवाहो१ परिणीय। २ नृपपुत्रः । ३खे।४ भगिन्यौ।
UPon