SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥ श्रीचित्रसम्भूत चरित्रम् ।। ॥१६॥ सम्भ्रान्तो ब्रह्मसुतः, सम्यगवालोकयद्यावत्॥१६१ ॥ उद्धाङ्ग्रेधूम, पिबतः कस्यापि तावदतिपीनम् ॥ दृिष्ट्वा 'कबन्धमुच्चै-रवापदनुतापसन्तापम्॥१६२॥' निर्मन्तुरपि हतोऽयं, हा ! विद्यासाधको मया कश्चित् ॥ तन्मां क्रीडारसिकं, धिगिति निनिन्दायमात्मानम् ॥ १६३ ॥ पुरतो गच्छंश्चैकं, प्रासादं सप्तभूमिकमपश्यत् ।। अतिनन्दनेन परितः, परीतमुद्यानवलयेन ।। १६४ ॥ साक्षाद्दिवीव तस्मिन्नारूढो 'निर्जरीमिव सुरूपाम् ॥ कुवलयदलविपुलाक्षी-मद्राक्षीत्कन्यकामेकाम् ॥१६५॥ सोऽथ शुभे! कासि त्वं, तिष्ठसि वा कथमिहेत्यपृच्छत्ताम् ? ॥ धृतसाध्वसा' ततः सा-ऽप्यदोऽवदद्गद्गदैर्वचनैः ॥ १६६ ॥ वृत्तान्तोऽस्ति महान्मे, तद्वद कोऽसि त्वमिह किमायासी: ?॥ इति तद्रािस मुदितो, वचनेनायोजयद्वदनम् ॥१७॥ पाञ्चालपतेर्ब्रह्म-प्रभोः सुतो ब्रह्मदत्तनामाऽहम्॥ इति सोऽवादीद्यावन्मुदिता सा तावदुत्तस्थौ ॥१६८ ॥ नयनाञ्जलितो गलितैः, सा प्रमदा प्रमदबाष्पसलिलभरैः ॥ रचयन्ती पाद्यमिव, न्यपतच्च तदछिनलिनयुगे ॥ १६९ ॥ अत्राणयाऽत्र मयका, दिष्टया शरणं शरण्य ! लब्धस्त्वम् ॥ इति च वदन्ती रुदन्ती, 'सुदती साऽऽश्वासि भूपभुवा ॥ १७० ॥ पृष्टा च का? त्वमिति सा, प्रोचेऽहं पुष्पचूलभूजानेः ॥ त्वन्मातुलस्य तनया, तुभ्यं दत्ताऽस्मि पुष्पवती॥ १७१॥ परिणयदिनोत्सुका रम१रुण्डम् । २ निरपराधी । ३ देवीम्। ४धृतभया।५ नलिनं कमलम्। ६ रक्षणरहितया। शोभनदशना। ८ भूजानिः नृपः। ॥१६॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy