SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्रीजेन व्यासंग्रहः ॥ श्रीचित्रसम्भूत __चरित्रम् ॥ ॥१५॥ आगाच्च जलदकालः', काल इव निदाघदाहस्य ॥ १५० ॥ तमथ पितृव्यः प्रेम्णा, सविशेषमपाठयत्कलाः सकलाः ॥ पात्रे दत्ता श्रीरिव, विद्या हि स्यादनन्तफला ॥ १५१ ॥ जातेऽथ शरत्काले, कन्दादिकृते वनं ययुर्मुनयः । ब्रह्मसुतोऽपि समं तै-र्ययौ निषिद्धोऽपि कुलपतिना॥१५२॥ तत्र च फलकुसुमभरै-नमितानमितान् स भूरुहान् पश्यन्॥ वनगजमेकमपश्य-युवराजमिवाद्रिराजस्य ॥ १५३ ॥ तस्यानुपदमयासी-निवार्यमाणोपि तापसैर्नृपभूः ॥ तेमाऽऽहूतः सद्यो, ववले व्यालोऽपि रोषान्धः ॥१५४॥ तटिनीपूरमिव द्रुत-मायान्तं तं च वञ्चयितुं मनसा ॥ प्रक्षिप्तमुत्तरीयं, क्रीडारसिकेन भूपभुवा ॥१५५॥ तत्तु करेण गृहीत्वा, प्राक्षिपदन्तर्नभः क्रुधा कुम्भी ॥ निपतच्च ततो नृपभू-स्तदाददे वञ्चितद्विरदः ॥१५६ ॥ क्रीडाभिरिति क्रीडति, तस्मिन् करिणा समं कृताटोपः॥ जलधाराभिर्जलदः, शरैरिवोपाद्रवत्तमिभम् ॥१५७॥ तस्मिंस्ततः प्रणष्टे, द्विप कुमारोऽपि जातदिग्मोहः॥ भ्राम्यन्त्रितस्ततः शैल-निम्नगामुत्ततारकाम् ॥ १५८ ॥ तस्याश्च तटे नगरं, 'पुराणमुद्वसमुदीक्ष्य पतितगृहम् ॥ तत्र प्रविशन्नेकं, वंशकुडङ्गं ददर्श धनम् ॥ १५९ ॥ तत्पार्श्वे फलकासी, दृष्ट्वा शस्त्रप्रियोऽग्रहीनृपभूः ॥ तं वंशकुडकंचा-सिनाच्छिनत्तत्परिक्षायै॥१६०॥ तस्माद्विनिर्गतमथ, स्फुरदधरपुटं स्फुटं समीक्ष्य शिरः॥ १ वर्षाऋतुः । २ ग्रीष्मदाहस्य। ३ पुष्कलान् । ४ वृक्षः । ५-६-७ हस्ती। ८ गजे। ९ उजड इति भा.। ॥१५॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy